________________
[आख्याते यङलुगन्तप्र०] टीकाद्वयोपेता।
(१५५) आरियः-आरियः । अरराञ्चकार-अरियराञ्चकार । लिङि यादादाविति रिङ् । आरियात्-आरियरियात् २ । अरारिता-अरियरिताअरियरीता । लुङि आरारीत्-आरियारीत् ॥ गृहू । जाहीतिजरिगृहीति-जरीगृहीति-, जर्डि, जर्मूढः, जर्गेहात । जहीतुजर्ग?-जHढात् । हौ जढि । अज!हीत्-,अजघर्ट-अजघर्ड ॥ ग्रह ।। जाग्रहीति-जाग्राढि । तसादौ किनिमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वात्र रुगादयः । जागृढः, जागृहात । जाग्रहीषि--- जाघ्रक्षि । जागृढि । जाग्रहिता। गृधु । जर्गेधीति-जर्गधि, जद्धः, जर्गेधति । जर्गधीषि-जत्सि । अजर्गधीत्-अजर्घ । सिपि अजधी:-अजर्घाः । अजर्गत्, अजर्गधिष्टाम् ॥ पाप्रच्छीतिपाप्रष्टि । तसादौ न संप्रसारणम् । शितपा निर्देशात् ॥
(सुबोधिनी)-पितः त्स्मी वेट् ॥ यङन्तात्परेषां हसादीनां पितां तकारसकारमकाराणामीड्डा स्यात् ॥ यङो लुक्याप प्रत्ययलक्षणेनात्र यङन्तत्वम् । बोभवीतिबोभोति, बोभूतः । द्वेरित्यन्तोऽत् हुन्वोरेवापीति नियमात् नुधातोरित्युव । बोभुवति । बोभूयात् । लोटि बोभवीतु-बोभोतु-बोभूतात् । लाङ अबोभवीत्-अबोभोत्, अबोभूताम् । अन उस् इत्यन उस् । उसि गुण इति गुणे अबोभवुः । कासादिप्रत्ययादित्याम् । बोभवांचकार । बोभूयात् । सिसतासीस्यपामितीट् ॥ बोभविता । बोभविष्यति । अबोभविष्यत्। लुङि दादेः पे इति सेर्लुक्यङ्लुकि सतीतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्भुवः सि लोपेस्वरे इति धुक।अबोभूवीत् । भुवः सिलोपेऽयङ्लुकि गुणो नेत्यनिषेधाद्गुणः। अबोभोत्, अबोभूताम्, अन उस् इत्यन उस् । नित्यत्वादुक्. अबोभूवुः॥डुपचा पाके । आत इति पूर्वस्यात्वम् । पापचीति-पापक्ति । पापच्यात् । पापक्तु-पापचीतु-पापक्तात् । अपापचीत्-चो कुरितिकः। दिस्योर्हसादिति दिसिपोर्लोपः। अपापक । पापचांचकार।पापच्यात्।पापचिता।पापचिष्यति।अपापचिष्यत्।अतो हसादरिति वा वृद्धिः। अपापाचीत्-अपापचीत्॥भुजपालनाभ्यवहारयोः।द्वेः स्वरेऽपि नोपधाया इत्यनेन चतुर्पु गुणो न । यङीति पूर्वस्य गुणः। बोभुजीति-चोः कुरिति गः । खसे चपा इति गस्य कः । बोभोक्ति । बोभुज्यातू । बोभुजीतु-बोभोक्तु । अबोभुजीत्-दिस्योरिति दिपसिपोलोपः । अबोभोकू । बोभोजांचकार । बोभुज्यात्बोभोजिता । बोभोजिष्यति । अबोभोजिष्यत् । अबोभोजीत् । वद व्यक्तायां वाचि । आत इति पूर्वस्यात्वम् । वावदीति-खसे चपा इति तः । वावत्ति । वावद्याता वावदीतु-वावत्तु-वावत्तात् । अवावदीत्-अवावत् । वावदांचकार । वावद्यात् । वावदिता। वावदिष्यति । अवावदिष्यत् । अवावादीत् ॥ घट चेष्टायाम् । आत इति पूर्वस्यात्वम् । जाघटीति-ष्टुभिः ष्टुरितिटः।जाघाट्ट । जापट्यात्। जाघटीतु-जाघटु ।