________________
[पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(३२१) (जनेररष्ठ च ) जठरम् ॥
(सुबोधिनी)-जनेररष्ठ च ॥ जन जनने जनी प्रादुर्भाव च आभ्यामरप्रत्ययः स्याद्धातोर्नस्य ठश्च ॥ जठरः । 'जठरः कठिनेअप स्यात्' इत्यमरः ॥
( हर्यतेः कन्यो हिर च) हिरण्यम् ॥ ( सुबोधिनी)-हर्यतेः कन्यो हिर् च ॥ हर्य गतिकान्त्योरस्मात् कन्यप्रत्ययःस्याद्धातोर्हिरादेशश्च ॥ कित्त्यान्न गुणः । हिरण्यं सुवर्णम् ॥
( कृत्रः पासः) कर्पासः॥ ( सुबोधिनी)-कृतः पासः॥ डुकृञ् करणे अस्मात्पासप्रत्ययः स्यात् ॥ कर्पासः। अणि प्रत्यये कार्पासं वस्त्रम् ।।
( ऊर्णोतेर्डः ) ऊर्णा ॥
( मुबाधिनी)-ऊर्णोतेर्ड ॥ऊर्णज्ञ आच्छादने अस्माड्डप्रत्ययः स्यात् ॥ डित्त्वाट्टिलोपः । ऊर्णा । 'ऊर्णा मेषादेलोम्नि स्यादावर्ते चान्तरा ध्रुवौ' इत्यमरः॥ध्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः । अन्तरायोगे भुवाविति द्वितीया ॥
(दधातयों नुट् च ) धान्यम् ॥ ___ (सुबोधिनी)-दधातेय तुट च॥डुधाधारणपोषणयोरस्माद्यप्रत्ययःस्यात्प्रत्ययस्य नुडागमश्च ॥ धान्यम् । 'धान्यं व्रीहिषु धान्याके' इति मेदिनी। - ( तनोतेर्डउः सवच ) तितउः॥
(सुबोधिनी)-तनोतेर्ड:सवच्च॥ तनु विस्तारे अस्मात् डउःप्रत्ययःस्यात्स डउप्रत्ययः सप्रत्ययतुल्यो भव ते॥ तेन द्वित्वादि । डित्त्वाट्टिलोपः। यः से इति पूर्वस्ये. त्वम् । पृथगुच्चारणसामर्थ्याद गुणो न । तितउः। 'तितउः पुंसि क्लीचे च। 'चालनी तितउः पुमान' इत्यमरः॥
( तत्त्वदी० )-तितउरिति। चालन्याम् । भाष्ये क्लीबनिर्देशात् क्लीबता चालनी तितउः. पुमान्' इत्यमरोक्तेः पुंस्त्वमपि ॥
(अर्भकादयः) ऋधु अर्भकः॥ (सुबाधिनी)-अर्भकादयः ॥ अर्भकादयो निपात्यन्ते ॥ ऋधु वृद्धावस्मादकन्प्रत्ययो धातोर्धकारस्य भश्च निपान्यते ॥ अर्भकः । 'अर्भकः कथितो बाले मूर्वेऽपि च कृशेऽपि च' इति मेदिनी ॥
(प्रथेरुकः संप्रसारणं च ) प्रथ पृथुकः ॥