________________
( ३२२ )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उणादयः ]
(सुबोधिनी) - प्रथेरुकः संप्रसारणं च ॥ प्रथ प्रख्याने अस्मादुकप्रत्ययः स्यात्संप्रसारणं च निपात्यते ॥ पृथुकः । 'पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत्' इति मेदिनी ॥
( पिबतेः कः ) पाकः ॥
(सुबोधिनी ) - पिबतेः कः ॥ पा पाने अस्मात्कमन्ययो निपातनात् ॥ पाकः । 'पाकः परिणतौ शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च' इति मेदिनी ॥ ( वदेर्नञि यः ) अवद्यम् । ( अवतेरमो धो वा ) अव । अवम:
अधमः ॥
(सुबोधिनी ) - वदेर्नञि यः ॥ वद व्यक्तायां वात्रिं ननुपपदादस्माद्यप्रत्ययो निपात्यते ॥ अवद्यं पापम् । 'कुपूयकुत्सितावद्यखेटगर्ह्यागकाः समाः' इत्यमरः ॥ अवतेरमो धो वा ॥ अव रक्षणादावस्मादमप्रत्ययो निपात्यते धातोर्वकारस्य वा धकारश्च ॥ अवमः - अधमः । 'निकृष्टप्रतिकृष्टार्वरेफयाप्यावम धमाः' इत्यमरः ॥
(क्लिशेर ईच्चोपधाया लोपश्च लो नाम् च ) कीनाशः ।
( सुबोधिनी ) क्लिशेरः । क्लिशू विबाधने अस्माद्प्रत्ययो निपात्यते । उपधाया ईत्वं लस्य लोपो नामागमश्च ॥ कीनाशः । ' कीनाशकर्ष कक्षुद्र पांसुघातिषु वाच्यवत् । यमे ना' इति विश्वः ॥
( चतेरुरः ) चत्वारः ॥
( सुबोधिनी )–चतेरुरः ॥ चते याचने अस्मादुरप्रत्ययः स्यात् ॥ चतुराम् शौचे- त्याम् । चत्वारः ॥
( हन्तेर्घुर् च ) घोरम् ॥
(सुबोधिनी) - हन्तेर्ध्रुर् च ॥ हन हिंसागत्योरस्मादप्र ययः स्याद्धातोर्घुरादेशश्च ॥ गुणः । घोरम् । 'घोरं भीमे हरे' इति विश्वः ॥
( क्षमेरलोपश्च ) क्ष्मा ॥
(सुबोधिनी ) - क्षमेरलोपश्च ।। क्षमूषू सहने अस्मादप्रत्ययः स्याद्धातोरुपधाया लोपश्च ॥ क्ष्मा | 'क्ष्माऽवनिर्मेदिनी मही' इत्यमरः ॥
( तरतेईिः ) त्रयः । त्रीन् ॥
(सुबोधिनी ) - तरतेड्रैिः ।। त प्लवनतरणयोः अस्मात् ड्रिप्रत्ययः स्यात् ॥ डित्त्वाट्टिलोपः । ए ओ जसीत्येत्वम् | त्रयः ॥ ( ग्रहेर निः ) ग्रहणिः ॥