SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [ उत्तरकृदन्तप्रक्रिया ] . टीकाद्वयोपेता। (३२३) ( सुबोधिनी)-ग्रहेरनिः॥ ग्रह उपादाने अस्मादनिप्रत्ययः स्यात् ॥ ग्रहणिः । कृदिकारादितीप् । ग्रहणी । ग्रहणी रुक् प्रवाहिका' इत्यमरः ॥ (प्रथेरमः) प्रथमः॥ __ (सुबोधिनी)-प्रथेरमः ॥ प्रथ प्रख्यानेऽस्मादमप्रत्ययः स्यात् ॥ प्रथमः । 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इत्यमरः॥ प्रथमचरमेति वैकल्पिकं सर्वादिकार्यमस्य ॥ ( चरेश्च ) चरमः । (सुबोधिनी )--चरेश्च ।। चर गतिभक्षणयोरस्मादमप्रत्ययः स्यात् ॥ चरमः॥ (मङ्करलः) मङ्गलम् ॥ (सदोणादयः) सर्वस्मिन्काले उणादयः॥ उणादयोऽपरिमिताः प्रयोगमनुसृत्य प्रयोक्तव्याः ॥ इत्युणादौ पञ्चमः पादः॥ (सुबोधिनी)-मनेरलः ॥ मगि गतावस्मादलप्रत्ययः स्यात् ॥ मङ्गलम् । "मङ्गला सितदूर्वायामुमायां मुसि भूमिजे । नपुंसकं तु कल्याणे सर्वार्थरक्षणेऽपि च" इति मेदिनी ॥ इति सुबोधिन्यामुणादौ पञ्चमः पादः ॥ ( तत्त्वदी० )-उणादय इति।तथा चोणादिषु प्रयोग दृष्ट्वैव प्रकृतिप्रत्ययानुबन्धकल्पनं कार्यमित्यर्थः ॥ कृतायामिह टीकायां लो शकरशर्मणा । उणादिप्रक्रिया चेयं सम्पूर्तिमगमत्परा ॥ इति पूर्वकृदन्तप्रक्रिया समाप्ता । अथोत्तरकृदन्तप्रक्रिया। (तुम् तदर्थायां भविष्यति ) धातोर्भविष्यति काले तुम् प्रत्ययस्तदर्थायां क्रियायां गम्यमानायाम् ॥ गुडं भोक्तुं व्रजति । व्याकरणं पठितुमीष्टे ॥ (सुबोधिनी )--तुम् तदर्थायां भविष्यति ॥ क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोर्भावे तुम् प्रत्ययः स्यात् । तच्छब्देन क्रिया, सा अर्थः प्रयोजनं यस्याः सा क्रियार्था तस्याम् क्त्वाद्यन्तं चेत्यव्ययसंज्ञा । भुज पालनादौ । भोक्तुं व्रजति देवदत्तः । भविष्यद्रूपं यद्भोजनं तत्प्रयोजनकं देवदत्तकर्तृकं व्रजनमित्यर्थः॥पठ व्यक्तायां वाचि । कृत इतीट् । पठितुमीष्टे देवदत्तः । भविष्यद्रपं यत्पठनं तत्प्रयोजनकं देवदत्तकर्तृकं कामनमित्यर्थः॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy