________________
( ३२४ )
सिद्धान्तचन्द्रिका |
[ उत्तरकृदन्तप्रक्रिया ]
( तत्त्वदी ० ) - तुम् तदर्थायामिति । क्रियायामितिविष्यपदमत्रानुवृत्तम् । तस्यै क्रियायै इयं तदर्था तस्याम् । यद्वा सा क्रिया अर्थः प्रयोजनं यस्याः सा तसाम् । तुम् भावे इति पण्डिताः ॥ (तुमर्थे वुण ) कृष्णं दर्शको व्रजति ॥
(सुबोधिनी ) - तुमर्थे ण् ॥ क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोः कर्तरि ण् प्रत्ययः स्यात् ॥ युवोरित्यकादेशः । दृशिर प्रेक्षणे । कृष्णं दर्शकों याति । कृष्णकर्मकं भविष्यद्यद्दर्शनं तत्प्रयोजनकं देव दत्तकर्तृकं यानमित्यर्थः ॥
( कालसमयवेलासु ) अध्येतुं कालः। स्तोतुं समयः । भोक्तुं वेला। ( सुबोधिनी) - कालसमयवेलासु ॥ कालादिषूपपदेषु तुम् स्यात् ॥ पर्यायोपादानमर्थोपलक्षणार्थम् । इङ् अध्ययने । अध्येतुं कालः ॥ टुञ् स्तुतौ । स्तोतुं समयः ॥ भुज पालनादौ । भोक्तुं वेला । एवमनेहसादियोगेऽपि । अनुवादेऽथ तुम् न भवति । सिद्धस्वरूपोच्चारणमनुवादः । 'भूतानि कालः पचतीति ॥ इति ॥
(तत्त्वदी०) - कालेति ॥ प्रेरणग्रहणमत्रानुवर्तते । तेन भूतानि कालः पचतीति वार्ता' इत्यत्र न ( इच्छार्थेष्वेककर्तृके पपपदेषु धातोस्तुम) भोक्तुमिच्छति वष्टि वाञ्छति वा ॥
( सुबोधिनी) - इच्छार्थेष्वेककर्तृकेषूपपदेषु धातं स्तुम् ॥ अक्रियार्थोपपदार्थमेतत्। भोक्तुमिच्छति वाञ्छति वाविश कान्तावयमपीच्छार्थकः कान्तिरिच्छेत्युक्तत्वात् । भोक्तुमिच्छतीत्यत्र भोजनविषयिणीच्छा प्रतीयते न तु भं जनार्थेच्छेति । एककर्तृकेष्विति किम्। पुत्रस्य पठनमिच्छति । पुत्रस्येति कर्तरि षष्ठी । पुत्र कर्तृकं पठनमिच्छतीत्यर्थः॥
( तत्त्वदी ० ) इच्छार्थेष्विति ॥ इच्छति भोक्तुमित्यादावि छायां भुजिं प्रति तादर्थ्याभावात् । प्रवृत्तिसामान्ये हेतुत्वस्यावधारितत्वेनाप्रतिपाद्यत्वात्। यद्वाऽस्तु तादः म्|एककर्तृकत्वादिलाभार्थमेतत् ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हा त्यथषु ) शक्नोति भोक्तुम् । धृष्णोति जानातीत्यादि ॥
(
( सुबोधिनी ) - शकधृषज्ञाग्लाघटरभलभक्रमस हार्हाऽस्त्यर्थेषु ॥ एषूपपदेषु धातोस्तुम् स्यात् ॥ अक्रियार्थोपपदार्थमेतत् । शक्ल शक्ती । ञिधृषा प्रागल्भ्ये । ज्ञा अवबोधने । ग्लै हर्षक्षये । घट चेष्टायाम् । रभ रामस्ये । डुलभष् प्राप्तौ । क्रमु पादविक्षेपे । षह मर्षणे । अर्ह पूजायाम् । अस भुवि । अर्थग्रहणमस्तिनैव सम्बध्यतेऽनन्तरत्वात् । भोक्तुं शक्नोति धृष्णोति जानाति इत्यत्र भुज्यथं विषयतया संबध्यते। ग्लायति भोक्तुमित्यत्र भोजन विषयिण्यशक्तिर्गृह्यते । भोक्तुं घटते इत्यत्र भोक्तुमर्हतीति योग्यता गम्यते । आरभते भोक्तुमित्यत्र प्रक्रमते उत्सहते इति भुजेराद्याऽवस्था गम्यते ।
१ यातीत्यपि पाठः सुबोधिनीकारसंमतः ॥