________________
{ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयांपेता ।
(३२५ ) लभते भोक्तुमित्यत्र प्राप्तिर्गम्यत । उत्सहते भोक्तुमित्यत्र भुजेराद्याऽवस्था गम्यते । अर्हति भोक्तुमित्यत्रापि योग्यता।अस्तिभवति विद्यते वा भोक्तुमित्यादौ संभवमात्रम्॥
( पूर्णतावाचिषु सामर्थ्यार्थेषु ) पर्याप्तो भोक्तुम्। प्रवीणः कुशलः समर्थः । पूर्णतेति किम् । अलं भुक्त्वा ॥ सामर्थ्यार्थेषु किम् । पूर्याप्तं भुते॥ • (सुबोधिनी)-पूर्णतावाचिषु सामर्थ्यार्थेषु॥ पर्याप्तिवाचिषु सामर्थ्यवचने - पपदेषु धातोस्तुम् स्यात् ॥ पर्याप्तो भोक्तुं समर्थः कुशलः पटुः प्रवीण इत्यर्थः। पूर्णतावाचिष्विति किम् । पर्याप्तं भुते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥
(घञ् भावे) पाकः । त्यागः । भावः । दायः॥ (सुबोधिनी)-घन् भावे॥ सिद्धावस्थापन्ने धात्वर्थ वाच्ये धातोर्घजू स्यात् ।। क्रियान्तराकाङ्क्षोत्थापकताव छेदकाक्रान्तत्वं सिद्धत्वम् । पिवतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थः । भाव इति ॥ भावे इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायामुपपदे भवन्तीत्यर्थः ॥ जित्त्वादृद्धिः । घित्वाच्चजोः कगौ घितीति कः । पच्यते पचनं वा पाकः ॥ त्यज हानौ । त्यज्यते त्यजनं वा त्यागः ॥ भू सत्तायाम् । भूयते भवनं वा भावः ॥ डुदाजु दाने । दीयते दानं वा आतो युगिति युक् । दायः॥ . (तत्त्वदी० )-घञ् इति । भाव इति । भवनं भावः । क्रियासामान्ये न तु भवत्यर्थमात्रम् । सिद्धतारूप एव भावे घन् । उक्तं च-"क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्य मिच्छन्ति तत्रैवेच्छन्ति घवियिम्" इति ॥ पाक इति ॥ नित्त्वादुपधावृद्धिः । घित्त्वात्कुत्वम् ।।
(संज्ञायामकर्तरि ) कर्तृवर्जिते कारके भावे च घञ् संज्ञायामसंज्ञायां च ॥ कार्य प्रत्याद्वियते यः स प्रत्याहारः । दीयतेऽस्मै दायः । विक्रियतेऽनेनेति विकारः। उपाध्यायः । उपाध्याया। उपाध्यायी । (घञर्थे का) घञोऽपवादः ॥ विशेषेण हन्यते कार्यमनेनेति विघ्नः। सुन्तः ॥
(सुबोधिनी)-संज्ञायानकर्तरि च ॥ कर्तृभिन्ने कारकेऽर्थे धातोर्घजू स्यात्संज्ञायामसंज्ञायां च वाच्यमाना पाम् ॥ हृञ् हरणे । प्रत्याहियते इति प्रत्याहारः ॥ डुदाञ् दाने । दीयत अस्मै इति। आता युगिति युक् । दायः। डुकृञ् करण। विक्रियतेऽनेनेति विकारः ॥ इङ अध्ययने । उपत्याधीयतेऽस्मादित्युपाध्यायः । स्वराद इत्यस्यापवादोऽयं घञ् ॥