________________
( ३२० )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उणादयः ]
( सुबोधिनी ) - हन्तेः शरीरावयवे द्वे च ॥ हन हिंसागत्योरस्मादः स्याद्धातोद्वित्वं च ॥ पूर्वाद्धन्तेरिति हस्य घः । जघनम् । 'पश्चान्नितम्बः स्त्रीकटयाः क्लीबे तु जवनं पुरः । ' इत्यमरः ॥
( तत्त्वदी ० ) - जघन मेति ॥ ' पश्चान्नितम्बः स्त्रीकट्याः श्रीवे तु जघनं पुरः || (क्लिशेर्लस्य लोपश्च ) कशः ॥
( सुबोधिनी) - क्लिशेर्लस्य लोपश्च ।। क्लिशु विबाधने अस्मादः स्याद्धातोर्लकारस्य लोपश्च ॥केशः | "केशः स्यात्पुंसि वरुणे हीबरे कुन्तलेऽपि च' इति मेदिनी ॥ ( फलेरितः फस्य पः ) पलितम् ॥
(सुबोधिनी ) - फलेरितः फस्य पः ॥ फल निष्पत्तावस्मादितप्रत्ययः स्याने द्धातोरादेर्वर्णस्य पवं च ॥ पलितम् । 'पलितं जरसा शौक्ल्यम्' इत्यमरः ॥ 'पलितं शैलजे तापे केशपाशे च कर्दमे' इति मेदिनी ॥
(कृञादेर्वु : ) करकः । कटकः । कुर गतौ । कोरकः । नरकः । (सुबोधिनी)--कृञादेर्बुः। वुप्रत्ययमाह-- पुवोरित्यकादेशः । डुकृञ् करणे । करकः कमण्डलुः । करको वृष्टिपाषाणः ॥ कटे वर्षावरणयोः । कटको वलयः ॥ नृ नये । नरकः । ' स्यान्नारकस्तु नरको निरयो दुर्गातिः स्त्रियाम् इत्यमरः ॥ ' नरकः पुंसि निरये देवारातिप्रभेदयोः' इति मेदिनी ॥
( तत्त्वदी ० ) -- कृ० ॥ कोरक इति ॥ कोरकोऽस्त्री कुमले स्यात्कक्कोलकमृणालयोः' इति मेदिनी ॥ 'कोरकः पुमान्' इत्यमरस्य प्रायेण पुमानिति व्याखानान्न दोषः ॥ नरक इति ॥ नारकोऽपि च ॥
(चीकयतेराद्यन्तविपर्ययः ) चीक आमर्षणे । कीचकः ॥
( सुबोधिनी) - ची कयतेराद्यन्तविपर्ययः ॥ चीक आमर्षणे चुरादिरस्याद्यन्तविपर्ययः वुश्च जेरिति ॥ ञिलोपः । कीचकः । ' कीचको ध्वनिमद्वंशे दैत्यभेदे दुमान्तरे' इति हैमः ॥
( तत्त्वदी १ ) कीचक इति ॥ वायुना शब्दकारी सच्छिद्रो वंशः ॥
O
( पचिमच्योरिरतः ) पेचकः । मच कल्कने । मेचकः ।
( सुबोधिनी ) - पचिमच्योरिरतः । एतयोरुपधाया अत इः स्याद्दुप्रत्ययश्च ॥ गुणः । डुपचषू पाके । पेचकः । 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः॥ 'पेचको गजलाङ्गूले मूलोपान्ते च कौशिके' इति मेदिनी ॥ मच कल्कने । मेचकः । "मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्ते वाच्यवत्क्लीवं स्रोतोऽञ्जनान्धकारयोः' इति मेदिनी ॥