________________
[ पूर्वकृदन्ते उणादयः ] टीकादयोपेता। ....( सुबोधिनी)-नहेर्हलोपश्च ॥ णह बन्धने अस्मात्खप्रत्ययः स्याद्धकारस्य लोपश्च ॥ नखः । 'नखः करमहे षण्ढे गन्धद्रव्ये नखं नखी' इति विश्वः ॥'नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुनपुंसकम्' इति मेदिनी ॥
(शीको इस्वश्च) शिखा॥ (सुबोधिनी)-शीङो द्वम्वश्च॥ शीङ् स्वप्ने अस्मात्खः स्याद्धातोर्हस्वश्च ह्रस्वविधानसामर्थ्याद् गुणाभावश्च । शिखा॥"शिखा शाखाबहिचूडालाङ्गलिष्वग्रमात्रको चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च” इति मेदिनी ॥
(माङ् उखो मय च ) मयूखः॥.. . (सुबोधिनी)-माङ ऊखो मय च॥ माङ् माने अस्मादूखप्रत्ययः स्याद्धातोर्मयादेशश्च ॥ मयूखः । 'मय खस्त्विदकरज्वालासु' इत्यमरः ॥ .
(गलेः फोगस्योच) गुल्फः॥ ( मुबोधिनी)-गले फो गस्योच्च ॥ गल अदने अस्मात्फप्रत्ययः स्याद्धातोरकारस्योत्वं च ॥ गुल्फः । तदन्थी घुटिके गुल्फौ' इत्यमरः । तयोः पादयोर्ग्रन्थी इत्यर्थः ॥ (तत्त्वदी०)-गुल्फ इति शरीरावयवरोगयोः ॥
(स्पृशः शश्वणौ पृच ) पशुः। पार्श्वः॥ ... ( सुबोधिनी)-स्पृशः हाश्वो पृ च ॥ स्पृश स्पर्शने अस्मात् शुश्वणौ प्रत्ययौ स्तः धातोः पृ इत्यादेशश्च ॥ पशुः । णित्त्वाढाद्धः । पार्श्वः। 'पार्थोऽस्त्री कक्षयोरधः' इति ॥ 'पार्श्वमन्तिके । कक्षाधोऽवयवे चक्रोपान्ते पशुगणेशपच' इति हैमः॥ (तत्त्वदी०)-स्पृशेरिति । 'पार्थोऽस्त्री कक्षयोरधः ॥'
(श्मनि श्रिञो डुन्न) श्मनशब्दो मुखवाची । इमानं मुखमाश्रयते श्मश्रु॥ __ (सुबोधिनी)-श्मनि श्रिो हुन्॥श्रिञ् सेवायामस्मात् श्मन्युपपदे डुन् स्यात्।। डित्त्वाहिलोपः।इमन्शब्दो मुग्ववाची इमानं मुखमाश्रयते इति श्मश्रु । नो लोप इति नलोपः । तदृद्धौ श्मश्रु पुम्मुखे' इत्यमरः । पुरुषमुखे तेषां रोम्णां वृद्धौ श्मशुशब्दो वर्तते इत्यर्थः॥
(जनेरो जङ्घ च ) जङ्घा ॥ (सुबोधिनी)-जनेरो जङ्घ च ॥ जनी प्रादुर्भावे अस्मादप्रत्ययः स्याद्धातोर्जवादेशश्च ॥ आप जङ्घा ।। . (हन्तेः शरीरावयव द्वे च ) जघनम् ॥