SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ( ३१८ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] (सुबोधिनी) --सौ रमेः क्तः सो दीर्घः ॥ रमु क्रीडायाम् । सुपूर्वादस्मात् क्तः स्यात् पूर्वपदस्य दीर्घश्च ॥ कित्त्वा लोपस्त्वनुदात्ततनामिति मलोपः । सूरत: उपशान्तो दयालुश्च ॥ (तत्त्वदी ० ) - सूरत इति ॥ उपशान्तदयावतोः ॥ ( पूञो यो णुकू ह्रस्वश्च ) पुण्यम् ॥ (सुबोधिनी) --पूञ यो णुक् ह्रस्वश्च ।। पूञ् पवने । अस्माद्यः प्रत्ययः स्याद्धातोर्णुक् हस्वश्च | 'पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयाः' इति विश्वः ॥ (स्रंसतेः शिर्यस्य कित्त्वं कुट् च ) शिक्यम् ॥ (सुबोधिनी ) - स्रंसतेः शिर्यस्य कित्त्वं कुटु च ॥ स्रंसु अधःपतने अस्माद् यः स्यात्स च कित् प्रत्ययस्य कुडागमश्च धातोः शिरादेशश्च ॥ शिक्यम् ॥ (अर्तेः क्युरुर् च) उरणः ॥ (सुबोधिनी )--अः क्युरुर् च । ऋ गतावस्मात् वयुः प्रत्ययः स्याद्धातोरुरादेशश्च ॥ कित्त्वान्न गुणः । युवोरित्यनादेशः । उरणः । द्रोरोरोर्णायुमेष वृष्णय एडके' इत्यमरः ॥ ( तत्त्वदी ० ) - उरण इति ॥ मेत्रे ॥ (उदि दृणातेर उदो दलोपश्च ) उदरम् ॥ (सुबोधिनी) उदि दृणातेर उदो दलीपश्च ॥ विदारणे अस्मादुत्पूर्वादः स्यादुदो दस्य लोपश्च ॥ उदरम् ॥ ( खनेर्मुटू डप्रत्ययः ) मुखम् ॥ (सुबोधिनी)--खनेर्मुट् डप्रत्ययः ॥ खनु अवदारणे अस्मात् डः प्रत्ययः स्याद्धातोर्मुडागमश्च ॥ ङित्त्वाट्टिलोपः । मुखम् । “मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि । संध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्" इति मेदिनी ॥ मुखं ह्युपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति हैमः ॥ ( अमेः सः ) असः ॥ ( सुबोधिनी ) - अमेः सः ॥ अम गतावस्मात्सप्रत्ययः स्यात् ॥ अंसः | 'स्कन्धो शिरोऽसोऽस्त्री' इत्यमरः ॥ 'अंसः स्कन्धे विभागे च' इति विश्वः ॥ ( मुहे: खो मूर्च) मूर्खः ॥ (सुबोधिनी )--मुहेः खो मूर्च ॥ मुह वैचित्त्ये अस्मात्वप्रत्ययः स्याद्धातोर्मूरादेशश्च ॥ मुह्यतीति मूर्खः । 'अज्ञे मूढयथाजातमूर्ख वैधेयबालिशाः' इत्यमरः ॥ ( नईलोपश्च ) नखः ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy