________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(३१५) (सुबोधिनी)-अप्पूर्वः सतिः॥ मृ गतावप्पूर्वः । अप्सराः । स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सराः इति शब्दार्णवः । 'अप्सरस्स्वप्सराः प्रोक्ताः सुमनाः सुमनःसु च' इति द्विरूपकोशः॥ (तत्त्वदी० )-अप्सरा इ ते ॥ प्रायेण भूम्नि अप्सरसः ॥ (पुरुपूर्वो रौतिः) पुरूरवाः॥ इत्युणादौ चतुर्थः पादः॥ (सुबोधिनी)-पुरुपूर्वो गतिः॥रु शब्दे पुरुपूर्वः । पुरुशब्दान्तस्य दी? निपातनात्। पुरूरवाः । 'पुरूरवां बुधसुतो राजर्षिश्च पुरूरवाः' इत्यमरः ॥ इति सुबोधिन्यामुणादौ चतुर्थः पादः ॥ ४॥
( अदि भुवो डुतः) अद्भुतम् ॥ (सुबोधिनी)-अदि भुवो दुतः ॥ अदित्यव्ययमाकस्मिकार्थे । तस्मिन्नुपपदे भूधातोडुतः प्रत्ययः स्यात् ॥ डित्त्वाहिलोपः । अद्भुतम् आश्चर्यम् ॥ (गुधेरूमः) गोधूमः ॥
(सुबोधिनी)-गुधेरूमः॥ गुध परिवेष्टने अस्मादूमः स्यात् ॥ गुध्यते परिवेष्टयत प्राणिभिरिति गोधूमः । 'गोधूमा नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी ॥
(मसेरूरः) मसूरः। ( सुबोधिनी)-मसेरूरः। मसी परिणामे अस्मादूरः स्यात् ॥ मसूरः ॥
(तृहेक्नो हलोपः तृणम् ॥ - (सुबोधिनी) तृहेः क्नो हलोपः॥ तृह हिंसायामस्मात् क्नः स्याद्धातोर्हस्य लोपश्च ॥ कित्त्वाद् गुणाभावः तृणम् ॥
(दंसेष्टो न आ च ) दासः। (सुबोधिनी)-दसेष्टो नआ च॥दसि दंशनदर्शनयोरस्मादृप्रत्ययःनस्यात्वंच॥ दासः । 'दासः शूदे दानपात्रे भृत्यधीवरयोरपि' इति विश्वः ॥ टित्त्वादीप् । दासी। ( तत्त्वदी० )-दास इति । सेवकशूद्रयोर्दासः ॥ (दशेश्च) दाशः ॥ (सुबोधिनी)-दशेश्च ॥ अस्मादपि टः स्यान्नस्यात्वं च ॥ दाशः । कैवर्ते दाश. धीवरौं' इत्यमरः॥ (तत्त्वदी० ) दंशेश्च ॥ दाशो धीवरः ॥ (सौ रमेक्तः सोर्दीर्घः) सूरतः ॥