________________
(३१६)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] - ( नञि हन एह चासिः) अनेहाः, अनहसौ ॥ __ (सुबोधिनी)-नञि हन एह चासिः ॥ असिप्रत्ययमाह-नञ्युपपदे हन्तरसिप्रत्ययः स्याद्धातोरेहादेशश्च ॥ इकार उच्चारणार्थः। हन हिंसागत्योः । उशनसामिति सेर्डा ॥ अनेहाः कालः॥
(विधाञो वध च) वेधाः ॥ ( सुबोधिनी )-विधाञो वेध च॥ डुधाजू धारणादौ। विपूर्वादस्मादसिः स्यासोपसर्गस्य धातोर्वेधादेशश्च ॥ विदधातीति वेधाः। अत्वसोः साविति दर्षिः। 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' इति मेदिनी ॥
(चन्द्रे माङो डित ) चन्द्रमाः ॥ (सुबोधिनी) चन्द्रे माङो डित् ॥ चन्द्रोपपदान्माडोऽसिः स्यात्स च डित्॥ डित्त्वाडिलोपः । माङ् माने । चन्द्रं रजतममृतं च मिमीतेऽसौ चन्द्रमाः । अत्वसोः साविति दीर्घः ॥
(पुरसि धाञः) पुरोधाः॥ (सुबोधिनी)-पुरसि धाञः॥ पुरस्शब्दे उपपद धाञोऽसिप्रत्ययः स्यात् ॥ डुधाञ् धारणादौ । पुरोधाः। 'पुरोधास्तु पुरोहितः' इत्यमरः॥
(उषः कित्) उषः॥ (सुबोधिनी )-उषः कित् ॥ उष दाहे अस्मादसिः स्यात्स च कित् ॥ कित्त्वान्न गुणः । उषः प्रभातम् ॥
(दमेरुनसिः) दमुनाः॥ (सुबोधिनी)-दमेरुनासिः॥ दमु उपशमे अस्मा दुनसिः स्यात् ॥ दमुनाः । 'सप्ताचिर्दमुनाः शुक्रः' इत्यमरः॥
(तत्त्वदी०)-दमेरु०॥ दमुनाः अग्निः ।। (वशेः कनसिः) उशना ॥ . (सुबोधिनी)-वशेः कनासिः ॥ वश कान्तावस्माकनासः स्यात् ॥ कित्त्वाद् अहामिति संप्रसारणम् । उशना । 'उशना भार्गवः कविः इत्यमरः ॥
(अगिरादयः ) अगि अङ्गिराः॥ ( बोधिनी)-अङ्गिरादयः ॥ असिप्रत्ययान्ता निपात्यन्ते ॥ अगि गतौ । असिप्रत्ययस्य इरुडागमो निपातनात् । अङ्गिराः ऋषिभेदः ॥ __ (अप्पूर्वः सतिः) अप्सराः॥