________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(३१५) (इण आग अपराधे ) आगः॥ (सुबोधिनी)-इण आग अपराधे ॥ इण् गतावस्मादसुः स्यादपराधे वाच्ये धातोरागादेशश्च ॥ आगः । 'आगः पापापराधयोः' इति विश्वः ॥ 'आगोऽपराधो मन्तुश्च' इत्यमरः॥ (तत्त्वदी०)-इण० ॥ 'आगः पापापराधयोः ।।' (अमेहक् ) अंहः। (सुबोधिनी) अमेढुक्।अम गत्यादावस्मादसुः स्याद्धातोर्तुगागमश्च।अमान्त गच्छन्त्यधस्तादनेनेत्यंहो दुरितम् ॥ . - (रमेश्च ) रंहः॥ ( देशे ह च.) रमन्तेऽस्मिन् रहः॥
(सुबोधिनी)-रमेश्च ॥ रमु क्रीडायामस्मादसुः स्याद्धातोर्तुगागमश्च । रंहो वेगः॥ देशे ह च ॥ देशे वा ये रमेरसुः स्याद्धातोर्मस्य हश्च॥ रहः । 'रहस्तत्त्वे रते गुह्ये' इति मेदिनी ॥
(रञ्ज्यादेः कित् ) रजः । भुवः॥ .. ( सुबोधिनी)-रञ्ज्यादेः कित्। असुः स्यात्स च कित्॥ रञ्ज रागे। कित्त्वान्नो लोप इति नलोपः । रजः । जः क्लीवं गुणान्तरे । आर्तवे च परागे च रेणुमात्रे ऽपि दृश्यते' इति मेदिनी ॥ प्रत्यये अकारान्तोऽपि । 'रजोऽयं रजसा सार्द्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः॥ भू सत्तायाम् । नुधातोरित्युव । भुवः अन्तरिक्षम् । षष्ठयन्तप्रतिरूपकमव्ययमिदम् ॥
(वसेर्णित्) वासः ॥ (सुबोधिनी)-वणित् ॥ वस निवासे अस्मादसुः स्यात्स च णित्॥णित्त्वाद् वृद्धिः । वासः वस्त्रम् ॥
(चन्देरादेश्वच्छः) छन्दः॥ (सुबोधिनी)-चन्देरादश्च च्छः॥चदि आह्लादने अस्मादसुः स्याद्धातोश्वस्य च्छश्च ॥ छन्दः । 'छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः' इति मेदिनी॥ अदन्तोऽप्ययम् । 'छन्दावभिप्रायवौ' इति द्विरूपकोशः॥
(वचादेः सुट्) वक्षः। पक्षः॥ (सुबोधिनी)-वचादेः सुट ॥वच परिभाषणे इत्यादिभ्यः असुः स्यात्प्रत्ययस्य मुडागमश्च ॥ चस्य करवे सस्य पत्वम् । वक्षो हृदयम् ॥ डुपचषु पाके । पक्षः । 'पक्षसी तु स्मृतौ पक्षौ' इति ॥ ( तत्त्वदी०)-पक्ष इति ॥ 'पक्षसी तु स्मृतौ पक्षी ॥' .
.