________________
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः । ( अतॆरुरः) उरः॥ (सुबोधिनी)-अर्तेरुरः॥ऋगतावस्मादसुः स्यात्स च किद्धातोरुरादेशश्च ।। उरः। 'उरो वत्सं च वक्षश्च' इत्यमरः ॥
(व्याधौ शुट ) अर्शः॥ (सुबोधिनी) व्याधा शुट ॥ ऋगतावस्मादसुः स्यात्प्रत्ययस्य शुडागमश्च स्याद्व्याधी वाच्ये ॥ अर्को गुदव्याधिः ॥ (तत्त्वदी०)-अर्श इति गुदव्याधौ ॥ (उदके नुट) अर्णः ॥ (सुबोधिनी)-उदक नुट् ॥ अर्तेरसुः स्यात्तस्य नु च ॥ अर्णः जलम् ॥ (इण आगसि) एनः । (सुबोधिनी) इण आगसि ॥ इण गतावस्मात्पा' वाच्येऽसुः स्यात्प्रत्ययस्य नुडागमश्च ॥ एनः पापम् ॥
(सुरीभ्यां तुट् च ) स्रोतः । रेतः। (सुबोधिनी)-सुरीभ्यां तुट् च ॥ आभ्यामसुः स्यात्प्रत्ययस्य तुडागमश्च॥सु गतौ । स्रोतः। 'स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्वः॥रीड़ श्रवणे । रेतः। रेतः शुक्र पारदे च' इति मेदिनी ॥
(पातेरुदके थुट ) पाथः॥ ( सुबोधिनी)-पातेरुदके थुट् ॥ पा रक्षणे अस्मादसुः प्रत्ययः स्यात्प्रत्ययस्य धुडागमश्च ॥ पाथः । 'कबन्धमुदकं पाथः' इत्यमरः॥
(अदेर्भक्ते धो नुम् च) अन्धः ॥ ___ (सुबोधिनी) अदेर्भक्ते धो नुम् च ॥ अद भक्षण अस्मादमुः स्याद्धातोर्दस्य धो नुम् च । अन्धः । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः ॥
(आप उदके ह्रस्वो नुम्भौ) अम्भः ॥ (सुबोधिनी)-आप उदके द्वस्वो नुम्भौआमोतेरसुः स्याद्धातोर्हस्वत्वं नुमागमो भश्चान्तादेश उदके वाच्ये ॥ अम्भः उदकम् ॥ ... ( नहोर्दिवि भः) नमः॥ . (सुबोधिनी)-नहेर्दिवि भः॥णह बन्धने अस्माद्गगने वाच्ये असुः स्याद्भश्चान्तादेशः॥ नभः । “नभो व्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः” इति विश्वः॥ 'नभः ख श्रावणो नभा' इत्यमरः ॥ 'नभं तु नभसा साद्धम' हति द्विरूपकोशः॥