________________
[पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता ।
(३१३) (सुबोधिनी)-वौ तसेः ॥ तसु उपक्षये अस्माद्विपूर्वात्तिः स्यात् ॥ वितस्तिः । 'अङ्गुष्ठे सकनिष्ठे स्याद्वितरितादशाङ्गुलः'इत्यमरः ॥ 'स्त्रीपुंसयोक्तिस्तिः स्यात्' इत्यमरमाला ॥ पद गतौ । पत्तिः ॥
(दृणातेह्रस्वः) इतिः॥ (सुबोधिनी)-दृणातेईस्पः ॥ दृ विदारणे अस्मात्तिः स्याद्धातोर्हस्वत्वं च ॥ दृतिः । 'दृतिश्चर्मपुटे मत्स्ये ना' इति मेदिनी ॥
(कतृकृपिभ्यः कीटः) किरीटम् । तिरीटम् । कृपीटम् ॥
(सुबोधिनी)-कृतृकृषिभ्यः कीटः ॥ कीटप्रत्ययमाह-कित्त्वान्न गुणः। क विक्षेपे । ऋत इरितीर किरीटम । 'किरीटं मुकुटे न स्त्री' इति चन्द्रगोमी॥त प्लवनतरणयोः । ऋत इरितीर । तिरीटं सुवर्ण शिरोवेष्टनं च ॥ कृपू सामर्थ्य । कृपीटम् । 'कृपीटमुदरे नीरे' इति विश्व ॥
(तत्त्वदी०)-किरिटमि' । शिरोवेष्टने ॥ तिरीटमिति सुवर्णे । कृपीटमिति वारिकुक्ष्योश्च ॥
(धातोरसुः) चेतः । सरः । पयः॥ (सुबोधिनी)-धातोरसुः॥असुप्रत्ययमाह-उदित्त्वादीप् । चिती संज्ञाने।चित संचतने चुरादिश्च । चेतः । चत्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः ॥ सृ गतौ । सरः । ईपि सरसी । 'सरसी तु महासरः' इति शब्दार्णवः ॥ 'महान्ति सरांसि सरस्यः' इति भाष्यम् ॥ पय गतौ पीङ् पाने च । पयः। ‘पयः स्यात्क्षीरनीरयोः' इति मेदिनी ॥
(अशेयुट् स्तुतौ) अश्नुते इति यशः॥ (सुबोधिनी)-अशर्युट स्तुतौ ॥ अशूङ व्याप्तावस्मादसुःस्याद्धातोर्युडागमश्च ॥ यशः, कीर्तिः ॥
(उब्जेर्बले बलोपः) ओजः॥ (सुबोधिनी)-उब्जेबले बलोपः॥उब्ज आर्जवे अस्मादसुःस्यादले वाच्ये बस्य लोपश्च ॥ ओजः । 'ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि' इति मेदिनी ॥
(श्रिञः शिरः किच) शिरः॥ ( सुबोधिनी)-श्रिञः शरः किच्च॥श्रिञ् सेवायामस्मादसुः स्यात्स च कित् धातोः शिरादेशश्च ॥ शिरः ! 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः ॥ कप्रत्यये तु शिर इत्यदन्तोऽपिा शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम्॥ 'पिण्डं दद्याद्याशिरे' इति वायुपुराण ॥ “कुण्डलोघृष्टगण्डानां कुमाराणां तरस्विनाम् ॥ निचकर्त्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्” इति महाभारते ॥