________________
(३१२)
सिद्धान्तचन्द्रिका। [ पूर्व कृदन्ते उणादयः ] प्रत्येक योज्यः अशू व्याप्तावित्यादिभ्यः इत्रप्रत्ययः स्यात् । बैङ् पालने इत्यादिभ्यः उत्रप्रत्ययः स्यात् ॥ अशूङ् आशत्रम् ॥ वह प्रापणे । वहित्रम् ॥ धृञ् धारणे । 'धरित्रम् । इपि धरित्री ॥ अम गतौ । आमित्र: शत्रुः । मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् ॥ त्रैङ् । आत्वे उत्रे च त्रोत्रं प्रहरणम् ॥ वृञ् वरणे । वरुत्रं प्रावरणम् ॥ (तत्त्वदी० )-त्रोत्रमिति ॥ प्रहरणे ॥ (चितेः कणः कश्च ) चिक्कणम् ॥ (सुबोधिनी)-चितेःकणः कश्च॥चिती संज्ञाने अस्मात्कणप्रत्ययः स्यात् तस्य । कश्च ॥ बाहुलकाद्गुणाभावः । चिक्कणम् । 'चिक्कणं ममृणं स्निग्धम्' इत्यमरः ॥ (तत्त्वदी०)-चिक्कणमिति ॥ स्निग्धे ।। (सूचेः स्मः) मूक्ष्मम् ॥ (सुबोधिनी)-मूचेः स्मः ॥ सूच पैशुन्य चुरादिर मात्स्मप्रत्ययः स्यात् ॥ जेरिति जिलोपः । कुत्वषत्वे । सूक्ष्मम् । 'मूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी ॥
(पातेईम्सुः) पुमान् ॥ (सुबोधिनी )पातेईम्सुः ॥ पा रक्षणेऽस्मात् डुम्सुप्रत्ययः स्यात् ॥ डित्त्वाटिलोपः । उदित्त्वात् स्त्रियामीप् । सुपुंसी । पुंसोऽसुङ् इत्यङ् । पुमान् ॥
(भुजादेः किष्यः) भुजिष्यो दासः॥
(सुबोधिनी)-भुजादेः किष्यः॥भुज पालनादावस्मात् किष्यप्रत्ययः स्यात्॥ 'कित्त्वान्न गुणः । भुजिष्यः। भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्र कदासयोः।' इति मेदिनी। “भुजिष्यः परिचारकः' इत्यमरः ॥
(वसादेस्तिः) वस्तिः। शास्तिः । अगमम्यतीति अगस्तिः॥
(सुबोधिनी)-वसादेस्तिः ॥ तिप्रत्ययमाह-वस निवासे । वस आच्छादने च । -वस्तिः। 'वस्तिईयोनिरूहे नाभ्यधोभूमिदशासु च ।' इति मेदिनी ॥ वस्ति भरधी द्वयोः' इत्यमरः॥शासु अनुशिष्टौ । शास्तिः राजदण्डः ॥ असु क्षेपणे। विन्ध्याख्यमगमस्यतीति । हलादेरिति टिलोपः । अगस्तिः । 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान् ।' इति मेदिनी ॥
(तत्त्वदी०)-वस्तिरिति ॥ 'वस्ति भेरधो द्वयोः । दशासत्रेऽपि वस्तयः ।' शास्तिमैति । राजदण्डे । अगमिति विन्ध्याख्यमित्यर्थः ।।
(वौ तसेः) तसु उपक्षये । वितस्तिः । पनिः ॥