________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(३११) (सुबोधिनी)-धातोस्वः॥त्रप्रत्ययमाह-वस आच्छादने । वस्त्रम् ॥असु क्षेपणे। अस्त्रम् । 'अस्त्रं प्रहरणे चापे करवाले नपुंसकम्' इति मेदिनी ॥ छद अपवारणे चुगदिश्यन्तः । इस्मन्निति इस्वत्वम् । बेरिति जिलोपः । छत्रम् ॥
(सिविमुच्योष्टरू:) षितु सूत्रम् । मुच्ल मूत्रम् ॥ (सुबोधिनी)-सिविमुच्योष्टेरूः॥आभ्यां त्रप्रत्ययः स्यादनयोष्टरूकारादेशश्च॥ कित्त्वान्न गुणः। षिवु तन्तुसन्ताने। सूत्रम् । 'मूत्रं तु सूचनाग्रन्थे सूत्रं तन्तुव्यवस्थयो' इति विश्वः ॥ मुल्ल मोक्षणं । मूत्रम् ॥
(अमादेः क्रः) आन्त्रम् । चित्रम् । मित्रम् । उष उष्ट्रः॥... (सुबोधिनी)-अमादेः क्रः॥अम गतिशब्दसंभक्तिषु । जमान्तस्येति दीर्घः।। आन्त्रम् ॥ चिञ् चयने । चित्रम् । 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः ॥ जिमिदा स्नेहने । मित्रम् । 'मित्रं स्हृदि न द्वयोः। सूर्ये पुंसि' इति मेदिनी ॥ उष दाहे । ग्रुत्वम् । उष्ट्रः 'उष्ट्रे क्रमेल मयमहाङ्गाः इत्यमरः॥
(पूजो द्वस्वश्च ) पुत्रः ॥ (सुबोधिनी)-पूओ द्वस्वश्व ॥ पूञ् पवने अस्मात् ऋः स्याद्धातोर्हस्वत्वं च।। पुनाति स्ववंश्यानिति पुत्रः । पुन्नामा नरकस्तस्मात् त्रायते इति आतो ड इति डप्रत्यये पुत्र इति व्युत्पत्त्यन्तरम् ॥
(स्त्यायतेईट ) श्री ॥ (सुबोधिनी)-स्त्याय तेईट् ॥स्त्यै ष्टयै शब्दसंघातयोः अस्मात् डट् स्यात् ॥ टित्त्वादीप् । डित्त्वाहिलोपः। 'यवयोर्वसे' इति यलोपः । स्त्री। 'स्त्री योषिदवला योषा नारी सीमन्तिनी वधूः ।' इ यमरः॥
(गमेरा) गात्रम् ।। (सुबोधिनी )-गमेरा।। गम्ल गतौ अस्य मस्यात्वं स्यात् प्रत्ययश्च॥गात्रम् । गात्रमने कलेवरे। 'स्तम्बरमाग्रजङ्घादिविभागेऽपि समीरितम् । इति विश्वः॥
(चरादेरित्रा ) चारित्रम् । वादित्रम् । __ (सुबोधिनी) चरादेरित्रम्॥इत्रञ्प्रत्ययमाह-त्रित्त्वाद्धिः। चर गतौ। चारित्रम् ॥ वद व्यक्तायां वाचि व्यन्तः । वादिनं तूर्यादि ॥
( अशित्रादिभ्य इत्रोत्रौ) अशित्रम् । वहित्रम् । धरित्री । अमित्रः । त्रैङ्त्रोत्रम् । वरुत्रम् ॥ __ (सुबोधिनी)-अशिबादिभ्य इत्रोत्रीअशिश्च त्रा च आशित्रौ अशित्रावादी येषां ते अशित्रादयस्तेभ्यः। द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं संबध्यत इत्यादिशब्दः