________________
(३१०) सिद्धान्तचन्द्रिका। पूर्वकृदन्ते उणादयः ]
(नामादयः) म्रा नाम । षो साम । षिञ् सीमा । व्ये व्योम । रु रोम । पै शोषणे पाप्मा । वेमा । अतेर्मनिण् आत्मा ॥
( सुबोधिनी ) नामादयः ॥ मन्प्रत्ययान्ता निपात्यन्ते ॥ ना अभ्यास । नायतेऽननेति । मलोपो निपातनात।नाम। 'आख्याह्ने अभिधानं च नामधेयं च नाम .' इत्यमरः ॥ षोऽन्तकर्मणि । साम । 'साम क्लीबमुपायम्य भेदे वेदान्तरेऽपि च' इति मेदिनी ॥ पिञ् बन्धने । सिनोतेदों निपात्यते । सीमा । 'सीमसीमे स्त्रियामुभे' इत्यमरः ॥ व्ये संवरणे । अन्त्यस्योत्वं निपातनात । गुणः । व्योम ॥ रु शब्दे । रोम गात्रकेशः॥ पा पाने । पुगागमो निपात्यते । पाप्मा पापम् ॥ वेञ् तन्तुसंताने । वेमा तन्तुवायदण्डः । अर्द्धर्चादिः। अतेर्मनिण। णित्त्वाद्वाद्धिःइकार. उच्चारणार्थः। अत सातत्यगमने । आत्मा। "आत्मा पुांस स्वभावे स्यात्प्रयत्नमनसोरपि। धृतावपि मनीषायां शरीरब्रह्मणोरपि" इति मेदिनी ॥ (तत्त्वदी०)नामा० ॥ वेमा तन्तुवायदण्डः ॥ (हनिमशिभ्यां सिकः) हंसिका । मश शब्दे । मक्षिका ॥ (सुबोधिनी)-हनिमशिभ्यां सिकः ॥ आभ्यां मिकप्रत्ययः स्यात् ॥ सिकप्रत्ययमाह-हन हिंसागत्योः। हंसिका । 'हंसिका हंसयोपिति' । मश शब्दे रोषकृते च । छशषेति षत्वम् । षढोरिति कत्वं षत्वं च । मक्षिका । 'मक्षिका भस्मराली स्यात्' इति हारावली ॥
(कोररः) कवरः ।। (सुबोधिनी)-कोररः॥ कु शब्दे अस्मादरः स्यात् ॥ कवरः पाठकः । बवयोरैक्यादीपि प्रत्यये कबरी केशविन्यासः । अन्यत्र कवरा ॥ - (गिर उडः ) गरुडः॥ _ (सुबोधिनी)-गिर उडः ॥ गृ निगरणे अस्मादुडप्रत्ययः ॥ गरुडः ॥
(इन्देः कमिनलोपश्च ) इदम् ॥ (सुबोधिनी)-इन्दः कमिनलोपश्च ।। इदि परमैश्वर्ये अस्मात्कमिः स्यान्नलोपश्च ॥ कित्त्वाद् गुणों न । इकार उच्चारणार्थः । इदमित सर्वादिगणस्थशब्दोऽयं सन्निहितपरामर्शकः ॥ . (कायतेर्डिम् ) किम् ॥
(सुबोधिनी)-कायतेर्डिम् ॥ कै शब्दे अस्मात् डिम प्रस्ययः स्यात् ॥ डित्त्वाडिलोपः। किम् ॥
(धातोस्त्रः) वस्त्रम् । अस्त्रम् । छत्रम् ॥