________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(३०९) मूलधनम् ॥ हृञ् हरणे। हिलोपे प्रहिः। 'पुंस्येवान्धुः पहिः कृपः' इत्यमरः ॥ ख्या प्रकथने । टिलोपे सति अलोपः। सहादेरिति समानस्य सादेशः । सेर्डाऽधरिति डा। सखा ॥ (तत्त्वदी० )-नी०॥ प्रहिः कूपः ॥ (आपूर्ती श्रिहनी) अश्रिः। अहिः ॥ (सुबोधिनी)-आङ्वौं श्रिहनी ॥ श्रिञ् सेवायाम् । टिलोपे सत्याङी हस्वो निपातनात् । अधिः। 'स्त्रियः पाल्यश्रिकोटयः' इत्यमरः ॥ दन्त्यसकारवांस्त्वदन्तः। 'अस्रः कोणे कचे सि क्लीबमश्रुणि शोणिते' इति मेदिनी ॥ आङपूर्वो हन हिंसागत्योः । टिलोपे सत्याङो ह्रस्वो निपातनात् । अहिः । 'अहिर्वृत्रासुरे स' इति मेदिनी ॥
( तत्त्वदी०)-आङ् ॥ 'स्त्रियः पाल्यश्रिकोटयः ॥' . (कादेः किः) कृ किरिः। गृ गिरिः । पृ पुरिः॥
(सुबोधिनी)-क्रादेः किः ॥ किप्रत्ययमाह--कित्त्वान्न गुणः । कृविक्षेपे । ऋत इरितीर् । किरिः। ' वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः। पृकृज्ञाभ्यश्चेति कप्रत्ययेऽदन्तोऽप्यस्ति । 'खचि त्वचः किरोऽपि स्यात्किरौ प्रोक्तः पथः पथि' इति द्विरूपकोश ।। गृ निगरणे । गिरिः । 'गिरिना नेत्ररुग्भिादि । अद्रौ गिरिजके योषिद्गीर्णौ पूज्ये पुनस्त्रिषु' इति मेदिनी ॥ पृ पालनादौ । पोरुरित्युर् । पुरिनगरं राजा नी च ॥
(मन्धातोः ) कर्म । चर्म । भस भर्त्सनदात्योः । भस्म । जन्म । छद्म । सुत्रामा ॥
(सुबोधिनी)-मन्धाताः॥ मन्प्रत्ययमाह-डुकृञ् करणे । क्रियते इति कर्म । 'कर्म व्याप्ये क्रियायां च पुनपुंसकयोर्मतम्' इति रुद्रः ॥ चर गत्यादौ । चर्म । 'चर्म कृत्तौ च फलके' इति मेदिनी ॥ भस भर्त्सनदीयोः । भस्म ॥ जन जनने । जन्म ॥ छद अपवारणे चुरादिः । इस्मन्निति ह्रस्वः । जोरीत जिलोपः । छद्म ॥ त्रैङ् पालने । सुष्टु त्रायते इति सुत्रामा इन्द्रः॥
(बृहेर्नस्य अः) ब्रह्म ॥ (सुबोधिनी)-बुंहेर्नस्य अः॥ वृहि वृद्धावस्मान्मन्स्यात् ।। नुमो नस्य अकारे कृते रत्वम् । ब्रह्म । 'ब्रह्म तन्वतपोवेदे न द्वयोः पुंसि वेधारी । ऋत्विग्योगभिदोविप्रे' इति मेदिनी ॥ 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः।
(तत्त्वदी०)-बुंहेः ॥ वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ।।