SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ [ पूर्वकृदन्ते उणादयः ] ( ३०८ ) सिद्धान्तचन्द्रिका। (वर्णेर्बलिश्च ) वर्ण वर्णने सौत्रः । बलिः ॥ ( सुबोधिनी) - वर्णैर्बलिश्च ॥ वर्णिः सौत्रोऽस्मात्किः स्याद्धातोर्बलिरादेशश्च ॥ बलिः । 'करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ।' ववयोरैक्याद्वलिः ॥ ( तवदी ० ) - बलिरिति ॥ पूजोपहारयोः ॥ (वपादेरिञ् ) वापिः । राजिः । वारिः । ॥ (सुबोधिनी) -- वपादेरिञ् । इञ्प्रत्ययमाह - ञित्त्वाद् वृद्धिः । डुव वापिः ॥ राजू दीप्तौ । राजिः । 'राजिः स्त्री पङ्क्तिरेखयोः' इति मेदिनी ञ्यन्तः । त्रेरिति ञिलोपः । वारिः । 'वारिः स्मृता सरस्वत्यां वारि इति विश्वः ॥ कृदिकारादितीप्तु पाक्षिकः सर्वत्र भवति । 'वारी तु इत्यमरः ॥ 'वारिः पथिकसंहतौ' इति च ॥ ( तत्त्वदी ० ) - वपा० ॥ वारिर्गजबन्धनी । जले क्लीबम् ॥ (नहो भः ) नाभिः । जनिः । आजिः । अतिः ॥ ( सुबोधिनी ) - नहो भः ॥ णह बन्धने अस्मादिञ् स्यात् हस्य भश्च ॥ नाभिः । “नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रती के स्यात्स्त्रियां कस्तूरिकामदे” इति मेदिनी ॥ जनी प्रादुर्भावे । इञ् । जनिवध्योरिति न वृद्धिः । जनिः । कृदिकारादिति पक्षे ईपू । जनी । 'जनी सीमन्तिनीवध्वं रुत्पत्तावौषधीभिदि' इति मेदिनी ॥ अज गतौ क्षेपणे च । बाहुलकादजेर्वीभावो न आजिः संग्रामः ॥ अत सातत्यगमने । आतिः पक्षी ॥ बीज संताने । वृञ् वरणे । हीबेरनीरयोः " गजबन्धनी' ( तत्त्वदी ० ) - नहो भः ॥ "नाभिः स्यात्क्षत्रिये पुंसि प्राण्यङ्गे तु स्त्रियाम् ॥” ( अशे रुट् ) राशिः ॥ ( सुबोधिनी) - अशे रुद्र ॥ अशू व्याप्तावस्मादिञ् प्रत्ययो धातो रुडागमश्च स्यात् ॥ राशिः ॥ 'राशिमेषादिपुञ्जयोः' इति मेदिनी ॥ ( वातेर्डित् ) विः ॥ ( सुबोधिनी) - वातेर्डित् ॥ वा गतिगन्धनयोर स्माड्डिः स्यात् । ङित्त्वाट्टिलोपः । दिः पक्षी । स्त्रियां वीत्यपि ॥ (नीव्यादयः ) निपूर्वी व्येञ् । नीविः । प्रहिः । समानं ख्यायते जनैरिति सखा ॥ (सुबोधिनी ) - नीव्यादयः । डिप्रत्ययान्ता निपात्यन्त - निपूर्वो व्येञ संवरणे । विलोपः । नेदींघों निपात्यते । यत इति यलोपः । नीविः । कृदिकारादि • तीपि नीवी । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च इत्यमरः ॥ परिपणो
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy