________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(३०७) (ध्याप्योः संप्रसारणम)ध्यै चिन्तायाम्।प्यैङ् वृद्धौधीवा।पीवा॥ __(मुबोधिनी)--ध्याप्योः संप्रसारणम्॥ध्यै चिन्तायाम् प्यै वृद्धौ आभ्यां वन् प्रत्ययः स्याद्धातोः संप्रसारणं च । धीवा कर्मकरः । पीवा स्थूलः । ( तत्त्वदी०)-धीवेति ॥ कर्मकरे । पीवा स्थूलः ॥ ( अदेर्धश्च ) अध्वा ॥ . ( मुबोधिनी) अदेर्धश्च॥अद भक्षणे अस्माईन् स्यादस्य धश्च॥अध्वा मार्गः ॥
(धातोरिः) यजिः । वट वेष्टने । वटिः। जनिः । बोधिः । हरिः। वर्तिः ॥
(सुबोधिनी)-धातोरिः॥ इप्रत्ययमाह-यज देवपूजादौ । यजिवट वेष्टन। वटिः ॥ बुध अवगमने । बोधिः । 'बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे' इति मेदिनी ॥ हज हरिः "हरिविष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यम वात प्रकीर्तितः ॥" वृतु वर्तनं । वर्तिर्दीपोपकरणम् ।।
(तत्त्वदी० )-हरिरिति ॥ "हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्र कीले प्लवङ्ग च यमे वाते प्रकीर्तितः ॥"
(नाम्युपधाकिः) कृषिः । ऋषिः । शुचिः। लिपिः। तूल निष्कर्षे नूलिः ॥
(सुबोधिनी)-नाम्युपधात्किः॥ नाम्युपधाद्धातोः किः स्यात्॥किप्रत्ययमाहकित्त्वान्न गुणः । कृष विलेखने । कृषिः । ऋषी गतौ । ऋषिः । "ऋषिर्वेदे वसिछादौ दीधितौ च पुमानयम्" इति मेदिनी॥ शुच शोके । शुचिः। शुचिः शुद्ध सितेऽनले । ग्रीष्माषाढानुपहतेषूपधायु (शु) धमन्त्रिणि । शृङ्गारे' इति हैमः ॥ लिप उपदेहे । लिपिः। बाहुलकाद्वत्वमपि । लिविः॥ तूल निष्कर्षे । तूलिः कूचिका ॥ - (क्रमितमिशतिस्तम्भामत इच्च) क्रिमिः । तिमिः। शितिः । स्तिम्भिः॥
(सुबोधिनी )-क्रमितमिशतिस्तम्भामत इच्च.॥ एभ्यः किः स्यादेषामत इकारादेशश्च॥क्रमु पादविक्षेपे । क्रिमिः । निपातनाद्रस्य संप्रसारणमपि भवति।कृमिः।। 'कृमि क्रिमिवत्कीटे' इति मेदिनी ॥ तमु काङ्खायाम् । तिमिः । तिमिर्मत्स्यभेदः ॥ शतिः सौत्री धातुः । शितिः। 'शितिः कृष्णे सिते भूजे' इति विश्वः ॥ 'शितिर्जे ना सितासितयोस्त्रिषु' इति मेदिनी ॥ स्तम्भः सौत्रः । स्तिम्भिः समुद्रः ॥
(मनेरत उच्च) मुनिः ॥ (सुबोधिनी)-मनेरत उच्च॥ मन ज्ञाने अस्मात्किः स्यादकारस्योकारादेशश्च॥. मन्यते जानातीति मुनिः । 'मुनिः पुमान्वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी ।