________________
(३०६) ___ सिद्धान्तचन्द्रिका। [पूवकृदन्ते उणादयः ] 'शक्ल प्रियंवदे' इत्यमरः॥ अमरोगे। चुरादिश्यन्तः । बाहुलकादुपधाह्रस्वः । रिति जिलोपः। अम्लः । 'अम्लो रसविशेष स्यादम्ली चाङ्गेरिकौषधौ' इति मेदिनी ॥ अवि शब्द । अम्ब्लो रसः ॥ . ( तत्त्वदी०) शक्ल इति ॥ 'शक्ल: प्रियंवदे ॥'
(मादेयः) माया। छाया सस्यम् । षुञ् सव्यम् ।
(सुबोधिनी)-मादेर्यः॥ यप्रत्ययमाह-मा माने। माया । 'माया स्याच्छाम्बरी'बुद्धयोर्मायः पीताम्बरेऽसुरे' इति मेदिनी ॥ छो छेदने छाया। "छाया स्यादातपाभाव प्रतिबिम्बार्कयोषितोः। पालनोत्कोचयोः कान्तिसच्छोभापङ्केिषु स्त्रियाम्" इति विश्वः॥ षस स्वप्ने । सस्यम् । 'वृक्षादीनां फलं सस्यम्' इत्यमरः ।। षुज्ञ अभिषके । सव्यम् । "सव्यं वामे प्रतीपे च' इति मेदिनी ॥ 'सव्यं दक्षिणवामयाः' इति विश्वः॥ : (तत्त्वदी० )-सव्यमिति ॥ 'दक्षिणवामयोः ॥' । -- (जनेयक ) जाया-जन्यम् ॥
(सुबोधिनी)-जनेर्यक् ॥ जन जनने अस्माद्यक् प्रत्ययः स्यात् ॥ जनसनति वाऽऽत्वम् । जाया। जन्यम् । “जन्यं हट्टपरीवादे संग्रामे च नपुंसकम् । जन्या मातृवयस्यायां जन्यः स्याजनके पुमान् । त्रिपुत्पोद्यजनित्रोध नवोढाज्ञातिभृत्ययोः । स्निग्धे” इति मेदिनी ॥ (तत्त्वदी०)-जन्यमिति युद्धे ॥ (अध्यादयः) हन् अघ्न्या। कनी दीप्तौ। न्या। वन्ध्या। संध्या। (सुबोधिनी)-अघ्न्यादयः॥ यक्प्रत्ययान्ता निपात्यन्ते-हन हिंसागत्योः । धातोरडागम उपधालोपश्च निपातनात् । 'हनो ने' इति यः । अघ्न्या। नझपूर्वाद्धन्तेर्यक् उपधालोपश्चेत्यन्ये । अघ्न्यः प्रजापतिः “माहेयी औरभेयी गौरुस्रा माता च शृङ्गिणी । अर्जुन्यन्या रोहिणी स्यात्" इत्यमरः ॥ कनी दीप्तौ । कन्या । 'कन्या कुमारिकागौयोरौषधीराशिभेदयोः'इति विश्वः॥बन्ध बन्धने । निपातनान्नलोपाभावः। बवयोरैक्यात् । वन्ध्या 'वन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादपजः स्त्रियाम्' इति मेदिनी॥ संपूर्वाद्धाजो यक् । आतो लोपश्च निपातनात्।संध्या। 'सायंसंध्या पितृप्रसः' इत्यमरः।।
(अादेवन् ) अर्वा । पृ पर्वा ॥ (सुबोधिनी)-अादेवन् ॥ वन्प्रत्ययमाह--अर्वा : 'अर्वा तुरङ्गगयोः' इति विश्वः ॥ 'अर्वा तुरङ्गमे पुसि कुत्सिते वाच्यलिङ्गकः' इति मेदिनी ॥ पृ पालनादौ । पर्वा । "पर्व क्लीवं सहे ग्रन्थौ प्रस्तावे लक्षणान्तरे। दर्शपतिपदोः संधौ विषुवत्प्रभृतिध्वपि” इति मेदिनी ॥