________________
पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। . (३०५) (जवादयः) जत्रु । अश्रु । रुरुः। शातयतीति शत्रुः ॥ (सुबोधिनी )-जवादयः॥ रुप्रत्ययान्ता निपात्यन्ते-जनी प्रादुर्भाव। नस्य तो निपातनात् । जत्रु । 'संधी तस्यैव जत्रुणी' इत्यमरः ॥ तस्य स्कन्धस्येत्यर्थः ॥ अशूङ व्याप्तौ । अश्रु नयनजलम्॥ रु शब्दे । निपातनाद् गुणाभावः । रुरुः। 'कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररोहिषाः' इत्यमरः ॥'रुरुदैत्ये मृगेऽपि च' इति मेदिनी॥ शद्ल शातने ज्यन्तः । शातयतीति। जेरिति जिलोपः। निपातनादस्वत्वम् । शत्रुः॥ (तत्त्वदी०)-रुरुरिति मृगभेदे ॥ (कुसेरुम्भोमेदेताः) कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितः॥ (सुबोधिनी)-कुसेरुम्भोमेदेताः ॥ कुस संश्लेषणे अस्मात् उम्भ उम ईद इत एते प्रत्ययाः स्युः॥ उम्भादिप्रत्ययानाह-कुसुम्भम्। 'कुसुम्भं हेमनि महारजने ना कमण्डलौ' इति मेदिनी ॥ कुसुमम् । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति मेदिनी॥कुसीदम्। 'कुसीई जीवने वृष्टयां क्लीबं त्रिषु कुसीदके' इति मेदिनी॥ कुसिता जनपदः ॥ (तत्त्वदी० )-कुसित इति जनपदे ॥
(तण्डुलादयः) तड आघाते। तण्डुलः। अकि लक्षणे। अकुशः। चष चषालः। पल्वलम् । निधृषा धिष्ण्यम् । शल्यम् ।
(सुबोधिनी)-तण्डुलादयो निपात्याः॥ तड आघाते । उलप्रत्ययो नुमागमश्च निपात्यत । तण्डुलः। 'तण्डुलः स्याद्विहङ्गे च धान्यादिनिकरे पुमान्' इति मंदिनी ॥ अकि लक्षणे । उशप्रत्ययो निपातनात् । अकुशः। 'अकुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः॥ चष भक्षण । आलप्रत्ययो निपातनात् । चषालः । 'चषालो यूपकण्टकः' इत्यमरः ॥ पा पाने । वलप्रत्ययो निपात्यते लुगागमश्च धातोर्हस्वत्वं च । पल्वलमल्पसरः। जिधृषा प्रागल्भ्ये । ण्यप्रत्ययः । ऋत इत्वं च निपात्यते । धिष्ण्यम् । 'धिष्ण्यं स्थाने गृहे भेऽग्नौ' इत्यमरः ॥ 'धिष्ण्यं स्थानानिसद्मसु । ऋक्षे शक्तौ च' इति मेदिनी ॥ शल गतौ । यप्रत्ययः। शल्यम् । 'शल्यं तु न स्त्रियां शकौ क्लीवं वडेषुतोमर । मदनद्रुश्वाविधी ना' इति मेदिनी॥ ( तत्त्वदी० )-शल्यम् ।। 'शल्यं वा पुंसि शकुर्ना ॥'
(मूशक्यम्यबिभ्यः क्लः) मूलम् । शक्तः । अम्लः । अबिशब्दे । अम्ब्लः ॥ . (सुबोधिनी)-मूशक्यम्यबिभ्यः क्लः ॥ क्लप्रत्ययमाह-कित्त्वान गुणः । मृङ् बन्धने । मूलम् । 'मूलं बुध्नो विनामकः' इत्यमरः ॥ शक्ल शक्तौ । शक्ल: ।