________________
(३०४)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (उल्बादयः ) उच समवाये। उल्बः। शुल्बम् । स्था स्तम्बः। स्तबकः॥
(सुबोधिनी) उल्बादयः॥ वप्रत्ययान्ता निपात्यन्ते ॥ उच समवाय चस्य लत्वं गुणाभावश्च। उल्बम्। 'गर्भाशये जरायुः स्यादुल्वंच कललऽस्त्रियाम्' इति मेदिनी ॥ शुच शोके । चस्य लत्वं गुणाभावश्च निपातनात्। शुल्बम्। 'शुल्वं ताम्र यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनी ॥ ष्ठा गतिनिवृत्तौ अस्मादम्बअबक एतौ प्रत्ययौ निपातनाद्धातोस्थस्य तश्च । स्तम्बः । स्तबकः। 'स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपिच' इति विश्वः॥ स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी॥'स्याद् गुच्छकस्तु स्तबकः' इत्यमरः ॥
(तत्त्वदी०)-उल्बमिति गर्भाशयः । शुल्वं ताम्रम् । स्तम्बो गुच्छस्तृणादीनाम् । स्तबकः पुष्पगुच्छः॥
(शाशपिभ्यां दः) शादः। शब्दः॥ ___ (सुबोधिनी)-शाशपिभ्यां दः॥ दप्रत्ययमाह-शो त करणे। शादः । 'शादो जम्बालशष्पयोः' इत्यमरः॥ 'शादः स्यात्कर्दमे शष्पे' इति मेदिनी ॥ 'शष्पं बालतृणं घासः' इत्यमरः ॥ शप आक्रोशे । शब्दो निनादः॥ ( तत्त्वदी०)--शाद इति जम्बालशष्पयोः ॥ (अब्दादयः) अवतीत्यब्दः । कुन्दः॥ (सुबोधिनी)-अब्दादयः॥ दप्रत्ययान्ता निपात्यन्ते-अव रक्षणे। वस्य बः। अब्दः। 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्' इति मेदिनी ॥ कु शब्दे । निपातनान्नुम् । कुन्दः। 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति मेदिनी ॥
(वलिमलितनिभ्यः कयः) वलयम् । मल यः । तनयः॥ (सुबोधिनी)-वलिमलितनिभ्यःकयः॥ कयप्रत्ययमाह-कित्त्वाद् गुणनिषेधादि । वल संवरणविलयम् । 'वलयःकण्ठरोगे ना कङ्कणे पुन्नपुंसकम्'इति मेदिनी ॥ मल धारणे । मलयः। मलयः पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायां तु योषिति' इति मेदिनी ॥ तनु विस्तारे । तनयः । आत्मजस्तनयः सूनुः' इत्यमरः॥
(हरो दुक च) हरतीति हृदयम् ॥ (सुबोधिनी)-हजो दुकू च ॥ हृञ् हरणे अस्मात्करः स्याद्धातोर्दुगागमश्च । हियते विषयैरिति हृदयं मनः ॥ .. (मिनोते रुः) मेरुः। . ( सुबोधिनी)-मिनोतेरुः॥प्रत्ययमाह-डुमिञ्प्रक्षेपणे। "मेरुः सुमेरुहेमाद्रि इत्यमरः॥