SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ टीकाद्वयोपेता । [ पूर्वकृदन्ते उणादयः ] ( नौ पथिः ) निषङ्गथिः ॥ (सुबोधिनी) - नौ षञ्जेर्घथिः ॥ षञ्ज सङ्गे निपूर्वादस्माद् घथिप्रत्ययः स्यात् ॥ 'घथिप्रत्ययमाह--धित्त्वाच्च जोरिति कुत्वम् । प्रादेश्चेति षत्वम् । निषङ्गयिः आलिङ्गकः ॥ (तत्त्वदी ० ) - निषङ्गथिरिति आलिङ्गके || ( सर्तेर्णिच्च ) सारथिः ॥ (३०३ ) (सुबोधिनी ) - सर्तेर्णिच्च ॥ सृ गतौ अस्माद् घथिः स्यात्स च णित् ॥ सारथिः । 'नियन्ता प्राजिता यन्ता सतः क्षत्ता च सारथिः' इत्यमरः ॥ ( खर्जादेरूरः ) खर्जूरः । कर्पूरम् । वल्लूरम् (सुबोधिनी ) - खर्जादेरूरः ॥ ऊरप्रत्ययमाह - खर्ज आर्जवे । खर्जूरः । 'खर्जूर रूपफलयोः खर्जूरः कीटवृक्षयोः' इति मेदिनी ॥ कृपू सामर्थ्ये । बहुलकात् कृपो रो ल इति लत्वाभावः । कपूरम् । 'अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः ॥ वल्ल संवरणे । वल्लूरम् । 'वल्लूरं शुष्कमांसं स्यात् ॥' ( तत्त्वदी ० ) - वल्लूरमिति ॥ शुष्कमांसम् ॥ (लङ्गेर्वृद्धिश्व ) लाङ्गलम् । (कुसेश्च) कुसूलम् ॥ (सुबोधिनी)-लङ्गेर्वृद्धिश्च ॥ लगि गतावस्मादूलप्रत्ययः स्याद्धातोर्वृद्धिश्च ॥लागूलम् । 'लांगूलं पुच्छशेफसोः' इति मेदिनी ॥ कुस संश्लेषणे । ऊलः । निपातनाद् गुणाभावः । कुसूलम् । 'कुसूलं च कुसीदं च मध्यदन्त्यमुदाहृतम्' इति विश्वः ॥ ( कुवश्चट् दीर्घश्च) कूचा ॥ (सुबोधिनी ) - कुवश्चट् दीर्घश्च ॥ कु शब्दे । अस्माच्चट प्रत्ययः स्याद्धातोः पाक्षिको दीर्घश्च ॥ चप्रत्ययमाह - टित्त्वादीप् । कूची चित्रलेखनिका । 'कुचकूचौ स्तनौ मतौ' इति विश्वः ॥ ( तत्त्वदी ० ) - कूचीति ॥ चित्रलेखनिका ॥ (सिवरू च ) सूची ॥ (सुबोधिनी) - सिवेरू च ॥ षिवु तन्तुसताने अस्माच्चट् स्याद्धातोष्टरूश्च ॥ सूचो दर्भाङ्कुरः । ' सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे' इति मेदिनी ॥ ( तत्त्वदी ० ) - सूचीति ॥ सूचो दर्भाङ्कुरः ॥ ( शमे: ) शमु शम्बः ॥ ( सुबोधिनी ) - शमेर्बः ॥ शमु उपशमे अस्माद्वः स्यात् ॥ बप्रत्ययमाह - शम्बः । 'शम्बः स्यान्मुसलाग्रस्थ लोहमण्डल के पवौ । शुभान्विते त्रिषु' इति विश्वमेदिन्यौ ॥ ( तत्त्वदी ० ) - शम्ब इति मुसले ||
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy