________________
(३०२)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (सुबोधिनी)-पीयेरूषः॥ ऊषप्रत्ययमाह-पाय पाने ॥ सौत्रो धातुः । पीयूषम् । बाहुलकाद् गुणे तु पेयूषः। 'पेयूषोऽभिनवं पयः' इत्यमरः ॥ पीयूषममृतं सुधा' इत्यमरः ॥ 'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते' इति मेदिनी ॥ 'पीयूषममृते नव्यसूतधेनोः पयस्यपि' इति हैमः॥
(मस्जेर्नुम्च ) मञ्जूषा ॥
(सुबोधिनी)-मस्जेर्नुम् च ॥ टुमस्जो शुद्धौ अस्मादू स्याद्धातोर्नुमागमश्च॥ मित्त्वादन्त्यात्स्वरात्परः। सस्य श्चुत्वेन शः। झबे जबा इति शस्य जः। हसात्परस्य झसस्यति वा जलोपः। मञ्जूषा । लोपाभावपक्षे जकारद्वयम् । मञ्जूषा। 'पिटकः पेटकः पेटा मञ्जूषा' इत्यमरः॥
(गण्डेश्च) गडि वदनैकदेशे । गण्डूषः॥ (सुबोधिनी)-गण्डेश्च ॥ गडि वदनैकदेशे अस्मादूषः स्य त् ॥ गण्डषः। 'गण्डपो मुखपूर्तीभपुष्करप्रसृतोन्मिते' इति मेदिनी ॥
(शकादेरटः )शकटम् । ककि गतौ । कङ्कटः । कृञ् करटः॥ (सुबोधिनी)-शकादेरटः ॥ अटप्रत्ययमाह-शकि गतौ शक्ल शक्तौ शकटः। 'क्लीवेज्नःशकटोऽस्त्री स्यात्' इत्यमरः । ककि गतौ । कङ्कटः सन्नाहः॥ डुकृञ् करणे कृ विक्षेपे वा । करटः। 'काकेभगण्डौ करटौ' इत्यमरः॥ "करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीविनि । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वाय” इति मेदिनी ।।
(तत्त्वदी०)-कङ्कट इति ॥ सन्नाहे ॥ .. (कलिकोरमः) कलमः । कर्द कुत्सिते शब्दे । कर्दमः॥
(सुबोधिनी) कलिकोरमः॥ अमप्रत्ययमाह-कठ संख्याने । कलमः । 'कलमः शालिचौरयोः' इति हैमः॥ 'कलमः पुंसि लेखिन्यां शालौ पाटच्चरेऽपि च' इति मेदिनी ॥ कर्द कुत्सिते शब्दे । कर्दमः पङ्कः ॥
(पुल्यादेः किन्दः) पुलिन्दः ॥ (सुबोधिनी )-पुल्यादेः किन्दः॥ किन्दप्रत्ययमाह-कित्त्वान्न गुणः । पुल महत्त्वे । पुलिन्दो जातिविशेषः ॥ . . ( तत्त्वदी० )-पुलिन्द इति ॥ जातिविशेषे ॥
(कुपेर्वा वः) कुपिन्दः कुविन्दः॥ - (सुबोधिनी)-कुपेर्वा वः ॥ किन्दः स्यात्पस्य वा दकारश्च ॥ कुप क्रोधे । कुपिन्दः-कुविन्दः-'तन्तुवायः कुविन्दः स्यात्' इत्यमरः ॥ ( तत्त्वदी० )-कुपिन्दकुविन्दौ तन्तुवाये ॥