SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ (३०१ ) [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । ( सूङादेः क्रिः ) सूरिः । भूरिः । अद्रिः ॥ (सुबोधिनी) - मूङादेः क्रिः ॥ क्रिप्रत्ययमाह - कित्त्वान्न गुणः ॥ षूङ् प्राणिप्रसवे । सूरिः ‘धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः' इत्यमरः ॥ अभिवानमालायां सूरीति नान्तमुदाहृतम् ॥ भू सत्तायाम् । भूरिः । " भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः” इति मेदिनी ॥ अद भक्षणे ॥ अद्रेः । 'अद्रयो द्रुमशैलार्काः' इत्यमरः ॥ ( रात्रिः ) रात्रिः । शत्रिः । अत्रिः ।। (सुबोधिनी) - रादेखिः ॥ त्रिप्रत्ययमाह--रा दाने। रात्रिः । शल शातने । शत्रिः । 'शत्रिर्नाम्भोधरे विष्णौ' इति मेदिनी ॥ अद भक्षणे अत्रिर्मुनिभेदः ॥ ( पतेरत्रिः ) पतत्रिः ॥ (सुबोधिनी) - पतेः ॥ अत्रिप्रत्ययमाह-- पत्लृ गतौ । पतत्रिः पक्षी । पतत्रशब्दात्पक्षवाचकान्मत्वर्थे इनि तु नान्तः । पतत्री, पतत्रिणौ । (तत्त्वदी० ) -- पतेरत्रिरेिति । पक्षिणि ॥ (मृङ ईचिः ) मरीचिः ॥ ( सुबोधिनी) - मृङ ईचिः ॥ ईचिप्रत्ययमाह - मृङ् प्राणत्यागे । मराीचैः । 'मरीचिः कृपणे दीप्तौ ऋ भेदे च दृश्यते' इति विश्वः ॥ ' मरीचिर्मुनिभेदे ना गंभस्तावनपुंसकम्' इति मेदिना ॥ ( वेञो डिच ) वाचिः ॥ (सुबोधिनी ) - वे डिच्च ॥ वेञ् तन्तुसंताने अस्मादीचिर्डित्स्यात् ॥ वीचिः । 'वीचिः स्वल्पे तरङ्गे स्यादवकाशे सुखे द्वयोः" इति विश्वः ॥ ( पुरः कुषः ) पुर अग्रगमने । पुरुषः ॥ (सुबोधिनी) - पुरः कुषः ॥ कुषप्रत्ययमाह - कित्त्वान्न गुणः । पुर अग्रगमने । पुरुषः । बाहुलकाद्दीर्घे पूरुषः । ' पुरुषस्त्वात्मनि नरे पुन्नागे च' इति हैमः ॥ 'पुरुषाः पूरुषा नरः' इत्यमरः ॥ 1 1 ( नहिक लिभ्य उषः ) परुषम् । नहुषः । कलुषम् ॥ (सुबोधिनी) - पुनहि कलिभ्य उषः ॥ उषप्रत्ययमाह - पृ पालनपूरणयोः । परुषम् । 'परुषं कर्बुरे रूक्षे निष्ठुरोक्तौ च वाच्यवत्' इति मेदिनी ॥ णह बन्धने । नहुषः । 'नहुषो राजविशेषे नागभिद्यपि ' इति हैमः ॥ कल शब्दसंख्यानयोः । कलुषम् । 'कलुषं त्वाविलैनसोः' इति विश्वः ॥ ( पीयेरूषः ) पीय पाने सौत्रः । पीयूषम् । पेयूषः ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy