________________
( ३०० )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उणादयः ]
(सुबोधिनी) - स्वादेनिः कित् ॥ सृ गतौ । सृणिः । ' अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः ॥ 'सृणिः स्यादङ्कुशः पुमान्' इति ॥ वृषु सेचने । वृष्णिः । ' वृष्णिस्तु यादवे मेषे वृष्णिः पाषण्डचण्डयोः' इति विश्वः ॥ ' वृष्णिः क्षत्रियमेषयोः ॥' ( तत्त्वदी ० ) - सृणिरिति ॥ अङ्कुशः । वृष्णिरिति ॥ क्ष त्रेयमेषयोः ॥ ( अङ्गेर्नलोपश्च ) अग्निः ॥
(सुबोधिनी ) - अङ्गेर्नलोपश्च ॥ अगि गतौ । निः । मनः । 'अग्निर्वैश्वानरो वह्निः' इत्यमरः ॥ ‘अग्निर्वैश्वानरेऽपि स्याच्चित्रकाव्यौषधौ पुमान्' इति मेदिनी ॥ (वहादेर्निः) वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः ॥ (सुबोधिनी ) - वहादेर्निः ॥ निप्रत्ययमाह - वह प्रापणे वह्निः । 'वह्निर्वैश्वानरेऽपि स्याच्चित्रकाव्यौषधौ पुमान्' इति मेदिनी । श्रिञ् सेवायाम् । श्रेणिः । 'श्रेणिः स्त्रीपुंसयोः पङ्कौ समाने शिल्पिसंहतौ' इति मेदिनी ॥ निःश्रगस्त्वाधिरोहिणी ॥ ' श्रु श्रवणे । श्रोणिः । 'कटिः श्रोणिः ककुद्मती' इत्यमरः ॥ युश्रणे । योनिः । 'योनिः खीपुंसयोश्च स्यादाकारे स्मरमन्दिरे' इति मेदिनी ॥ द्रु गतौ । द्रोणिः सेचनी ॥ ग्लै हर्षक्षये । ग्लानिः दौर्बल्यम् ॥
(घृण्यादयः ) घृणिः । स्पृश् पृष्णिः । पृषु पाणिः ॥
(सुबोधिनी) - घृण्यादयः । । निकुप्रत्ययान्ता निपात्यन्ते ॥ सेचने । घृणिः । 'घृणिः पुनः।अंशुज्वालातरङ्गेषु' इति हेमचन्द्रः॥ स्पृश संस्पर्शने । स्पृतेः सलोपो निपातनात् । छशषेति षत्वं टुत्वम् । पृष्णिः । 'पृष्णिरल्पतनौ' इत्यमरः ॥ दृषु सेचने । पृषेर्वृद्धिनिपात्यते । पाणिः । 'पाणिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च' इति मेदिनी ॥
( तत्त्वदी ० ) - घृणेरिति ॥ किरणः॥ पृष्णिरिति ॥ स्पृशेः ग् लोपे ॥ पृषेस्तु वृद्धौ पाष्णिः । (पातेर्डतिः ) पतिः ।
(सुबोधिनी) - पातेडतिः ॥ इतिप्रत्ययमाह - डित्त्वाट्टिलोपः । पा रक्षणे । पतिः । 'पतिर्धवे ना त्रिष्वीशे' इति मेदिनी ॥
(शकेऋत्) शकृत् ॥
( सुबोधिनी ) - शकेऋत् ।। ऋत्प्रत्ययमाह - शक्ल शक्ती । शकृत् । 'उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ' इत्यमरः ॥ ( हन्तेरतिरंह च ) हन्ति दुरितमनया अंहतिः ॥
(सुबोधिनी ) - हन्तेरतिरंह च ॥ हन हिंसागत्योः । अस्मादतिः स्याद्धातोरंहादेशश्च ॥ अंहतिः । 'प्रादेशनं निर्वपणमपवर्जनमंहतिः' इत्यमरः ॥