________________
[ पूर्वकृदन्ते उणादयः ]
टीकाद्वयोपेता ।
( २९९ )
(उलूकादयः ) उलूकः । शमु शम्बूकः । शल शालूकः । मङि भूषायाम् । मण्डूकः ॥
(सुबोधिनी) - उलूका दयः ॥ ऊकप्रत्ययान्ता निपात्यन्ते - वल संवरणे । संप्रसारणं निपातनात् । उलूकः । उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि' इति मेदिनी ॥ शमु उपशमे । धातोर्बुगागमो निपातनात् । शम्बूकः । 'शम्बूको गजकुम्भान्ते घोषे स्याच्छूद्रतापसे' इति मेदिनी ॥ बाहुलकादुकप्रत्ययोऽपि । शम्बुकम् | 'जम्बूकं जम्बुकं प्रोक्तं शम्बूकमपि शम्बकम्' इति द्विरूपकोशः ॥ ' शम्बूका जलशुक्तयः', इत्यमरः ॥ शल गतौ । निपातनाद् वृद्धिः । शालकम् । 'सौगन्धिकं तु कहारम् ' इत्याद्युपक्रम्य 'शालूकमेषां कन्दः स्यात्' इत्यमरः ॥ एषां सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शालूकमित्यर्थः ॥ मडि भूषायाम् ॥ मण्डते वर्षासमयमिति मण्डूकः भेकः ॥
(तत्त्वदी०) -- उलूकादर इति ॥ 'उलूका विन्द्रमेचकौ ।' शम्बूको जलशुक्तिः । शालूकं कन्दविशेषः ॥
( नियो मिः ) नेमिः ॥
(सुबोधिनी) - नियो मिः ॥ मिप्रत्ययमाह - णीञ प्रापणे । नयति चक्रमिति नेमिः । 'नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्' इति मेदिनी ॥
( अर्तेरुर्च ) ऊर्मिः ॥
(सुबोधिनी) - अर्ते रुच || मिप्रत्ययः स्याद्धातोरुरादेशश्च ॥ ऋ गतौ । ऊर्मिः । ऊर्मिः स्त्रीपुंसयोवच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसंकोचरेखायां वेदना पीडयोरपि ।।” इति मेदिनी ॥
""
भुवः
किच्च ) भूमिः ॥
(सुबोधिनी) - भुवः किच्च ॥ मिक् स्यात् ॥ कित्त्वान्न गुणः । भू सत्तायाम् । भवन्ति भूतान्यस्यामिति भूमिः । 'भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रियाम् । इति मेदिनी ॥
(
( अश्नोते रश् च ) रश्मिः ॥
(सुबोधिनी) - अश्नो ने रश् च ॥ अशूङ् व्याप्तावस्मान्मिः स्याद्धातो रशादेशश्व । रामः ॥ 'रश्मिः पुमान्दीधितौ स्यात्पक्षप्रग्रहयोरपि ।' इति मेदिनी ॥ (तत्त्वदी ० ) - रश्मिरिति ॥ रज्जुकिरणयो रश्मिः ॥ ( खादेर्निः कित्) सृणिः । वृष्णिः ॥