________________
(२९८)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (अर्जेजः) ऋजीषम् । अबि शब्दे। अम्बरीषो निपात्याअम्बरीषम् ॥
(सुबोधिनी)-अर्जेजः ॥ अज अर्जने अस्मात्कीपः स्याद्धातोर्ऋजादेशश्च ॥ ऋजीषम्।'ऋजीषं पिष्टपचनम्' इत्यमरः।अवि शब्दोनिपातनादीषप्रत्ययः प्रत्ययस्यारुडागमश्च । अम्बरीषः। “अम्बरीषं रणे भ्राष्टे क्लीवं पुंसि नृपान्तरे।नरकस्य प्रभेदे च किशोरे भास्करपि च । आम्रातकऽनुपाते च"इति मेदिनी॥ 'अम्बरीषः पुमान्भ्राष्ट्र' क्लीवे पुंसि नृपान्तरे ।'इति बोपालितः ॥ 'क्लीवेऽम्बरीषं भ्रष्ट्रो ना' इत्यमरः॥
( तत्त्वदी० )-अम्बरीष इति ॥ 'अम्बरीषः पुमान्भ्राष्ट्र कीबेऽपि ॥' (क्रादेरीरः) करीरः । शु शरीरम् ॥ (सुबोधिनी)-क्रादेरीरः॥ ईरप्रत्ययमाह-कृ विक्षेप। करीरः। “वंशारे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान्। करीरा चीरिकायां च टन्तमूले च दन्तिनाम्" इति मेदिनी ॥ शू हिंसायाम् । शीर्यते इति शरीरम् । अर्द्धचा देः। 'शरीरं वर्म विग्रहः' इत्यमरः॥ (तत्त्वदी० )क्रादेरिति ॥ करीरो वंशाङ्कुरः ।। (गभीरादयः)गम्ल गभीरः-गम्भीरःवश उशीरम्। घस्ल क्षीरम्।। ( सुबोधिनी)-गभीरादयः॥ ईरप्रत्ययान्ता निपा यन्ते॥गम्ल गता । मस्य भः पाक्षिको नुम् च निपातनात् । गभीरम्-गम्भीरम् । 'निं गभीरं गम्भीरम्'इत्य. मरः ॥ वश कान्तौ । निपातनात्करिप्रत्ययः।ग्रहामिति संप्रसारणम् । उशीरम्। मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यम्' इत्यमरः ॥ घस्ल अदने। कीरप्रत्ययो निपातनात् । गमामित्युपधालोपे कत्वं षत्वम् । क्षीरम् । 'क्षीरं च दुग्धे नीरे च' इति विश्वः॥
(शीको धुकूलवलवलवालपालाः) शीधुः। शीलम् । शेवलः। शैवलः। शेवालम् । शेपालम् ॥ ___ (सुबोधिनी)-शीङोधुक्लक्वलवलञ्वालपालाः॥ शीङ स्वप्ने अस्माषट् प्रत्यया भवन्ति ॥ शेरतेऽनेनेति शीधुः । अर्द्धर्चादिः। 'मैरेयमासवः शीधुः' इत्यमरः ॥ लक् । शीलम् । शीलं स्वभावे सद्वत्ते' इति मे देनी ॥ वलः । शेवलम् । वलञ् । शैवलम् । 'जलनीली तु शेवालं शैवलः' इत्यमरः । शैवलं पद्मकाष्ठे स्याच्छैवाले तु पुमानयम्' इति मेदिनीवाल । शेवालम् ॥ पाल । शेपालम् । 'शैवालं शैवलो न स्वी शेपालो जलनीलिका' इति शब्दार्णवः॥ ( तत्त्वदी० )-शीधुरिति ॥ मद्यम् ॥ 'शेवालं शैवलो नत्री शेपालो जलनीलिका ॥