________________
[पूर्वकृदन्ते उण.दयः ] टीकाद्वयोपेता ।
(२९७) (सुबोधिनी)-दूषेरीकाईकप्रत्ययमाह-दुष वकृत्ये ज्यन्तः। दुषे विति दीघः। जेरिति त्रिलोपः। दूषीका। 'दूषीका नेत्रयोर्मलम्' इत्यमरः॥ किं च अकृतेऽपि ईकप्रत्यये दूषयतेर्धातोरिरिति।इप्रत्यये दूषिः । कृदिकारादिति वेपि दूषी । उभाभ्यामपि स्वार्थे कप्रत्यये ह्रस्वो वेति पाक्षिके ह्रस्वे च कृते दूषिका दूषीका च सिद्धयति । "पिचण्डी दूषिका दूषी पिचाटश्च दृशोर्मलम्' इति विक्रमादित्यकोशः ॥ 'दूषिका तूलिकायां च मले स्याल्लोचनस्य च' इति मेदिनी ॥ ( तत्त्वदी०)-दूषेरिति ॥ 'दूषीका नेत्रयोर्मलम् ॥' ..
(अनिदृषिभ्यां किच्च ) अनीकम् । हृषीकम् ॥ __ (सुबोधिनी)-अनिहषिभ्यां किञ्च ॥ कीकप्रत्ययः स्यात्॥कित्त्वान्न गुणः । अन प्राणने । अनीकम् । 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी ॥ हृष तुष्टौ । हृषीकम् । 'हृषीकं विषयीन्द्रियम्' इत्यमरः ॥
· ( अलीकादयः) अल भूषणादौ । अलीकम् । वलीकम् । पुण कर्मणि शुभे । पुण्डरीकम् । ईष-इषीका॥ .
(सुबोधिनी)-अलीकादयः॥कीकप्रत्ययान्ता निपात्यन्ते॥अल भूषणादौ । अलीकम् । 'अलीकं त्वप्रियेऽपि स्यादिव्येऽसत्ये नपुंसकम्' इति मेदिनी॥'अलीकमप्रिये लाभे वितये' इति हेमचन्द्रः ॥ विपूर्वात् व्यलीकम् । 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पाडने । ना नागरे' इति मेदिनी ॥ वल संवरणे । वलीकम् । 'वलीकनीधे पटलप्रान्त' इत्यमरः ॥ वलतनिपातनान्मुमागमे कृत वल्मीकम् । 'वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्' इत्यमरः ॥ पुण कर्मणि शुभेोधातोर्नुमागमो णस्य डश्च प्रत्ययस्यारुडागमश्च निपातनात।पुण्डरीकम् । “पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याग्निदिङ्नागे कोशकारान्तरेऽपि च ॥” इति मेदिनी॥ ईष गतौ । निपातनादस्वः । इषीका शलाका ॥ (तत्त्वदी० )-अलीकादय इति ॥ अलीकं मिथ्या । 'वलीकं पटलप्रान्ते ॥'
(कादेरीषः) करीषम् । तृ तरीषः॥ . (सुबोधिनी) क्रादेरीषः॥ईषप्रत्ययमाह-कृ विक्षेपे । करीषम् । करीष गोमय शुष्कम्' इत्यमरः ॥ तृ प्लवनतरणयोः। तरीषः। तरीषा ॥
(तत्त्वदी० )-क्रादेरिति ॥ 'करीषोऽस्त्री पशुशुष्कगोमययोः ।।' . (श्रादेः कीपः) श शिरीषः । पृ पुरीषम् ॥
(सुबोधिनी )-श्रादेः कीषः॥शु हिंसायाम् । ऋत इरितीर् । शिरीषो वृक्षः॥प पालनपूरणयोः । पोरुरित्युर् । पुरीषम् । 'गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रिया' इत्यमरः॥