________________
(२९६)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] । (सुबोधिनी)-गमेरिनिर्भविष्यति॥ इकार उच्चारणार्थः । इनिप्रत्ययमाह-गम्ल गतौ । इनामिति दीर्घः । गमी । आपूर्वाद्गमरिनिप्रत्ययस्तु णित् । णित्त्वादू वृद्धिः। आगमिष्यतीति आगामी ॥भू सत्तायामस्मादपि इनिः स च णित्स्यात् । भविष्यतीति भावी ॥
(परमे स्थः कित्) परमेष्ठी ॥ (सुबोधिनी)-परमे स्थः कित् ॥ परमशब्दे उपपदे तिष्ठतेरिनिः कित्स्यात् ॥ कित्त्वादातोऽनपीत्यालोपः। परमेष्ठी । 'परमेष्ठी पितामहः' इत्यमरः। सप्तम्या अलुक् ॥
(मन्थ इनिः कित) मन्थाः, मन्थानौ ॥ (सुबोधिनी)-मन्थ इनिः कित् ॥ मन्य विलोडने अस्मादिनिः कित् । नो लोप इति नलोपः। इतोऽत्पञ्चसु इत्यत्वम् । आ सौ इति टेगत्वे थो नुट् । मन्थाः । 'मन्था मन्थनदण्डे चं वजे चापेऽपि च स्मृतः ॥'
(पतेस्थश्च ) पन्थाः, पन्थानौ ॥ :: (सुबोधिनी)-पतेस्थश्च ॥पत्ल गतौ अस्मादिनिःस्यात्तकारस्य थश्च । पन्थाः॥ पथे मतावित्यस्मात्पचाद्यप्रत्ययेऽकारान्तोऽप्यस्ति। 'वाटः पयश्च मार्गश्च' इति सुभूतिचन्द्रः॥ ऋभवोदेवाः क्षयन्त्यस्मिन्निति विग्रहे बाहुलकात् इप्रत्यये ऋभुक्षः। 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः ॥ ततो मत्वर्थीय इन्, ऋभुक्षिनिति नान्तं प्रातिपदिकम् । अत्वे आत्वे च ऋभुक्षा इन्द्रः॥
(बलाकादयः) बलाका। पताका। खज मन्थे ।खजाकः। पिनाकः। पिण्याकः। तड आघाते । तडाकः ॥
(सुबोधिनी)-बलाकादयः ॥ आकप्रत्ययान्ता पात्यन्ते-बल प्राणने । बलाका । "बलाका बकपंक्तिः स्याद्वलाका बिसकण्ठिका बलाका कामुकी प्रोक्ता बलाकश्च बको मतः” इति विश्वः ॥ पल पतने । पताका । 'पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपिच' इति विश्वः ॥ “पताका वैजयन्त्यां च सौभाग्ये नाटकाङ्कयोः' इति मेदिनी ॥ खज मन्थे । खजाकः पक्षी ॥ पा रक्षणे । पातेरित्वं नुम् च निपात्यते । पिनाकः। 'क्लीवपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः' इत्यमरः ॥ 'पिनाकोऽस्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः' इति मेदिनी ॥ पिष्ल संचूर्णने । षस्य णत्वं धातोर्यगागमश्च निपात्यते । पिण्याकः । "पिण्याकोऽस्त्री तिलकल्के हिगुवाला सिहके' इति मेदिनी ॥ तड आघाते । तडाकः ॥ (तत्त्वदी०)-पिनाक इति ॥ "क्लीबपुंसोः पिनाकः स्याच्छू लशङ्करधन्वनोः ॥" (दूषेरीकः) दूषिका।