________________
[ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता।
(२९५) (सुबोधिनी)-वातप्रम्यादयः ॥ कीप्रत्ययान्ता निपात्यन्ते। कस्येत्संज्ञा । माङ् माने । आतोऽनपीत्यालंपिः । वातं प्रमिमीते इति वातप्रमीः । 'वातप्रमीर्वातमृगः' इत्यमरः ॥ अयं स्त्रीपुंभयोः ॥ या प्रापणे । ययीरश्वः । पा रक्षणे । पपीः । निपातनादुभयत्र द्वित्वम् । 'पपीः स्यात्सोमसूर्ययोः' इति विश्वः ॥ (तत्त्वदी०)-वात०॥ ययीरश्वः ॥ 'पपीः स्यात्सोमसूर्ययोः ॥'
(रत्न्यादयः) रत्निः।अजू अञ्जलिः।मदीमत्स्यः। अत अतिथिः। अगि अङ्गुलिः । कौतेः कवचः । यु यवासः । कृश कृशानुः॥
(सुबोधिनी)-रत्न्यादयः॥ रत्न्यादयो निपात्यन्ते-ऋअजूमदीअतअगिकुयुकृशिभ्योऽष्टभ्यः कत्नि आठ स्य इथि उलि अच आस आनुक् प्रत्यया यथासंख्यमष्टौ भवन्ति । ऋ गतौ कलिः । कित्त्वान्न गुणः । रत्वम् । रनिः । 'बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताः ।' अरनिरत्र नसमासः । प्रसृतागुलियों हस्तः, सोऽरनिरित्यर्थः ॥ अजूठ क्त्यादौ कलिः । अञ्जलिः । 'अञ्जलिस्तुं पुमान्हस्तः संपुट कुडवेऽपि च' इति मंदिनी ॥ मदी हर्षे । स्यः मत्स्यः । 'मत्स्यो मीनेऽथ पुम्भूम्नि देशे' इति मेदिनी ॥ अत सातत्यगमने । इथिः । अतिथिः । 'अतिथिः कुशपत्रे स्यात्पुमानागन्तुके त्रिषु' इति मेदिनी ॥ अगि गतौ । उलिः अङ्गुलिः। 'अङ्गुलिः करशाखायां कर्णिकायां गजस्य च' इति हैमः ॥कु शब्दे । अचः । कवचः । 'कवचो गर्दभाण्डे । सन्नाहे पर्पटेऽपि च' इति मेदिनी ॥ यु मिश्रणे । आसः। यवासः ‘यासो यवार । दुःस्पर्शः' इत्यमरः ॥ कृश तनूकरणे । आनुकू । कृशानुः। 'कृशानुः पावकोऽनलः' इत्यमरः॥
(तत्त्वदी०)-रत्न्यादयः इति ॥ ऋ इत्यस्य रनिरिति । 'बद्धमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः ॥'
(श्रः करः) शर्करा ॥ (सुबोधिनी)-श्रःकरः। करप्रत्ययमाह-ककारस्य नेत्वं बाहुलकात् ॥शु हिंसायाम् । शर्करा । 'शर्करा खण्डविकृतावुपलाशर्करांशयोः ॥ शर्करान्वितदेशे च रुग्भंदे सकलेजप च' इति मेदिनी ॥
(पुषः कित्) पुष्करः ॥ (सुबोधिनी) पुषः कित ॥ करक्प्रत्ययमाह--पुष पुष्टौ । पुष्करम् । “पुष्कर खेऽम्बुपद्मयोः। तूर्यवक्त्रे खड्गफले हस्तिहस्ताग्रकाण्डयोः । कुष्ठौषधौ द्वीपतीर्थभेदयोश्च नपुंसकम् ! ना रागनागविहगनृपभेदेषु चाम्बुदे” इति मेदिनी ॥
(गमेरिनिर्भविष्यति) गमिष्यतीति गमी ॥