________________
( २९४ )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उणादयः }
( सुबोधिनी ) - इणः कित् ॥भकू स्यात् ॥ कित्त्वान्न गुणः । इण् गतौ । इभः । 'इभः स्तम्बेरमः पद्मी' इत्यमरः ॥
( असिसञ्जिभ्यां क्थिः ) अस्थि । सवि ॥
( सुबोधिनी ) - असिसञ्जिभ्यां क्थिः ॥ क्थिप्रत्ययमाह -- कित्त्वान्नस्य लोपः । अक्षेपणे । अस्थि । 'कीकसं कुल्यमस्थि च' इत्यमरः ॥ षञ्ज सङ्गे । चोः कुरिति गः । खसे चपा इति कः । नो लोप इति नलोपः । सक्थि । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः ॥
(शुषादेः क्सिः ) शुक्षिः । कुष निष्कर्षे । कुक्षिः । अशू अक्षि ॥ (सुबोधिनी ) - शुषादेः क्सिः ॥ क्सिप्रत्ययमाह - कित्त्वान्न गुणः । शुष शोषणे । षढोरिति कः । षत्वम् । शुक्षिः वातः ॥ कुष दाहे । कुक्षिः ॥ अशूङ व्याप्तौ । छशषेति षत्वं कत्वं च । अक्षि नयनम् ॥ (तत्त्वदी ० ) - शुक्षिरिति ॥ शुक्षितः ॥ ( इषः सुः ) इक्षुः ॥
( सुबोधिनी ) - इष: क्सुः ॥ क्सुप्रत्ययमाह- कित्त्वान्न गुणः । इषु इच्छायाम् । कत्वे षत्वे इक्षुः । ' रसाल इक्षुः ' इत्यमरः ॥
( अविस्तृत त्रिभ्य ई: ) अवीः । तरीः । स्तरीर्धूमः । तन्त्रीः ।
(सुबोधिनी) - अवितृस्तृतन्त्रिभ्य ईः ॥ इत्ययमाह - - अव रक्षणादौ । अवीः । 'अवीर्नारी रजस्वला ॥' प्लवनतरणयोः । तरी । 'स्त्रियां नौस्तरणिस्तरिः " इत्यमरः ॥ स्तृञ् आच्छादने । स्तरीधूमः ॥ तत्रि कुटुम्बधारणे चुरादिः। तन्त्रयतीति । जेरिति ञिलोपः । तन्त्रीवणा ॥
( तत्त्वदी ० ) - अवि ॥ अवीरिति ॥ अवति गर्भमवीः 'अवीं स्त्रीं गर्भिणीं विदुः ॥' तरीनः ॥ स्तरीः शयनं धूम इति च ॥
(लक्षेर्मुट् च ) लक्ष्मीः ॥ इात तृतीयः पादः ॥
(सुबोधिनी) - लक्षेर्मुट् च ॥ लक्ष दर्शनाङ्कनयोः चुरादिः अस्मादीप्रत्ययः स्या त्प्रत्ययस्य_मुडागमश्च ॥ जेोति ञिलोपः । लक्ष्मीः । 'लक्ष्मी: संपत्तिशोभयोः । ऋद्धयोषधौ च पद्मायाम्' इति मेदिनी ॥ दीर्घादपि वृदिकारादिति पाक्षिक ईपू कैश्विदिष्यते । अत एव वातप्रमीश्रीलक्ष्मीत्यादिशब्दा क्षे ईबन्ता अपि । 'आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरिप्रिया' इति द्विरूपकोशः ॥ इति सुबोधिन्यामुणादौ तृतीयः पादः ॥
( वातप्रम्यादयः) वातप्रमीः । यान्त्यनेनेति ययीः । पारक्षणे । पपीः।।