________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। सोला।
(२९३ ) .. (सर्तेरपः षुक् च सर्षपः॥
(सुबोधिनी)-सर्तेरपः षुक् च ॥ सृ गतौ अस्मादपप्रत्ययः स्याद्धातोः घुगागमश्च ॥ अपप्रत्ययमाह- सर्षपः ॥
(विटपादयः) वि शब्दे । विटपः। विष्टपम् । कुणपम् । वल सं. वरणे । उलपम् ॥
(सुबोधिनी)-विटपादयः॥ कपप्रत्ययान्ता निपात्यन्ते-कित्त्वान्न गुणः । विट शब्दे । विटपः । 'विटपो न स्त्रियां स्तम्बे शाखाविस्तारपल्लवे । विटाधिपे ना' इति मेदिनी । विश प्रवेशने । विशतेः प्रत्ययस्य तुडागमो निपात्यते । छशषेति पत्वम् । ष्टुत्वम् । विष्टपम् । 'विष्टपं भुवनं जगत्' इत्यमरः ॥ कण शब्दे । वस्योत्वं निपातनात् । कुणपम् । 'कुणपः पूतिगन्धे शवेऽपि च' इति मेदिनी ॥ 'कुणपः शवमस्त्रियाम्' इत्यमरः ॥ वल संवरणे । वस्योत्वं निपातनात् । उलपम् । 'उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इ ते मेदिनी ॥ (तत्त्वदी०)-उलप इति ॥ कोमलं तृणम् ॥ (वृतादेस्तिकः ) वर्तिका ॥ (सुबोधिनी)-वृतादेस्तिकः॥ तिकप्रत्ययमाह-वृतु वर्तने । वर्तिका ॥ (कृतः कित् ) कृत्तिका ॥
(सुबोधिनी)-कृतः किम् ॥ कृती छेदने इत्यादिभ्यस्तिककू स्यात् ॥ कित्त्वान्न गुणः । कृत्तिका ॥दिर विदारणे। भित्तिका भित्तिः। लतु सौत्रोधातुः। लत्तिका गोधा॥
( इष्यशिम्यां तकः) इष्टका । अष्टका ॥ (सुबोधिनी )-इष्यशिभ्यां तकः ॥ तकप्रत्ययमाह-इषु इच्छायाम् । ष्टुत्वम् । इष्टका ॥ अशूङ् व्याप्तौ। छशपति षत्वम् । अष्टका ॥
(वीपतिभ्यां तन:) वेतनम् । पत्तनम् ॥
(सुबोधिनी)-वीपतिभ्यां तनः ॥ तनप्रत्ययमाह-वी गत्यादौ । वेतनम् ।। पल पतने । पत्तनम् । 'पत्तनं पुटभेदनम' इत्यमरः॥
(अादेर्भः) अर्भः दृ दर्भः। गर्भः ॥ (सुबोधिनी)-अादेर्भः ॥ भप्रत्ययमाह-ऋ गतौ । इयर्तीति अर्भः शिशुः। कप्रत्यये अर्भकः ॥ दृ विदारणे । दर्भः ॥ग निगरणे । गर्भः । 'गर्भो भ्रूणेऽर्भक कुक्षौ संधौ पनसकण्टके' इति मंदिनी ॥
( इणः कित्) इभः॥