________________
(२९२)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] 'भ्रमरः कार्मुके भृङ्गे' इति मेदिनी ॥ चमु अदने । चमः। 'चमरं चामर स्त्री तु मञ्जरीमृगभेदयोः' इति मेदिनी ॥ दिवु क्रीडादौ । ज्यन्तः । देवयतीति देवरः । पत्युः कनिष्ठभ्राता ॥ वस निवासे । ज्यन्तः । वासयतीति वासरो दिवसः॥ (तत्त्वदी०)-अादेरिति ॥ अररं कपाटम् ॥ (कुवः किद्रुट् च ) कुररः॥ (सुबोधिनी) कुवः किद्भुट् च ॥ करप्रत्ययमाह-कित्त्वान्न गुणः। कु शब्द । कुररः। उत्क्रोशकुररौ समो' इत्यमरः ॥
(अङ्गयादेरारः) अङ्गारः । मन्दारः॥ (सुबोधिनी)-अङ्गयादेरारः॥आरप्रत्ययमाह-अगि गतौ अङ्गारः। 'अङ्गारमुल्मुके न स्त्री पुंल्लिङ्गस्तु महीसुते' इति मेदिनी ॥ मदि स्तुत्यादौ । मन्दारः। बाहु लकादारुप्रत्ययोऽपि । मन्दारुः। 'पारिभद्रे तु मन्दारुर्मन परः पारिजातके'इति शब्दार्णवः ॥ 'मन्दारुः स्यात्सुरद्रुमे । पारिभद्रेर्कपणे च' हा विश्वः ॥
(गडेःकड च) गड आसेचने । कडारः।। । (सुबोधिनी)-गडेः कड च॥गडि वदनैकदेशे । गड सेचने वा । अस्य कडादेश आरप्रत्ययश्च स्यात् ॥ 'कडारः कपिलः पिङ्गः' इत्यमरः ॥ 'कडारः कपिले दास' इति मेदिनी ॥
(शृङ्गारादयः) शृङ्गारः । भृङ्गारः । मृजूष मार्जारः । कमु कुमारः। तुषारः। कासारः॥
(सुबोधिनी)-शृङ्गारादयः॥ आरप्रत्ययान्ता निपात्यन्ते ॥ श हिंसायाम। नुस् गुक् ह्रस्वश्च निपात्यते । शृङ्गारः । 'शृङ्गारः सुरंग नाटये रसे च गजमण्डने । नपुंसकं लवङ्गेऽपि नागसंभवचूर्णयोः ॥"इति मेदिनी । भृञ् भरणे । नुम् गुक च निपात्यते।भृङ्गारः। 'भृङ्गारः कनकालुका।' 'भृङ्गारी झिल्लिकायां स्यात्कनकालौ पुनः घुमान्' इति च ॥ मृजूष शुद्धौ । मृजेर्वृद्धिरिति वृद्धिः । मार्जारः । 'ओतुबिडालो मार्जारः' इत्यमरः ॥ 'मार्जार ओतो खट्वाङ्गे' इति मेदिनी ॥ कमु कान्तौ । उपधाया उत्वं गुणाभावश्च निपातनात् । कुमारः। कुमारः स्याच् के स्कन्दे युवराजेश्ववारके। बालके वरुणाद्रौ ना न द्वयोर्जात्यकाश्चने । कुमारी शैल तनयावनकाल्योर्नदीभिदि । सहाऽपराजिताकन्याजम्बूद्वीपेषु च स्त्रियाम॥' इति मेदिनी ॥ तुष तुष्टौ । तुषारः। 'तुषारस्तुहिनं हिमम्' इत्यमरः॥ कास शब्दकुत्सायाम् । कासारः । 'कासारः सरसी सरः' इत्यमरः॥
(तत्त्वदी० )-भृङ्गार इति । 'भृङ्गारः कनकालुका ॥