________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(२९१) (सुबोधिनी)-क्रादेरभः॥ अभप्रत्ययमाह-क विक्षेपे । करभः । 'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते इति मेदिनी॥ 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः ॥ गृ हिंसायाम् । शरभः। 'शरभस्तु पशोभिदि“करभो वानरभिदि' इति च मदिनी ॥ शल गतौ। शलभः। 'समौ पतङ्गशलभौ' इत्यमरः ॥ कल गतौ। कलभः । 'कलभः करिपोतके॥' गर्द शब्दे । गर्दभः।"गर्दभः श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः।” इति मेदिनी ॥
(ऋषिवृषिभ्यां कित) ऋषभः। वृषभः॥ (सुबोधिनी) ऋषिवृषिभ्यां कित् ॥ कभप्रत्ययमाह-कित्त्वान्न गुणः । ऋषी गतौ।ऋषभः"ऋषभःस्यादादिजिने वृषभे भेषजे स्वरेकर्णरन्ध्रे कोलपुच्छे श्रेष्ठेचाप्युत्तरे स्थितः॥ऋषभी शूकशिम्ब्यां स्यात्पुरुषाकारयोषिति । विधवायां शिरालायाम्" इति हेमचन्द्रः॥ "ऋषभस्त्वौषधान्तरे । स्वरभिद्वषयोः कर्णरन्ध्रे गर्दभपुच्छयोः । उत्तरस्थः स्मृतः श्रेष्ठ स्त्रीनराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां वधिन्मता।” इति मेदिनी ॥ वृषु सेचने । वृषभः । 'वृषभः श्रेष्ठवृषयोः ॥'
(रासवल्लिभ्यां च ) रास शब्दे।रासभः। वल्ल संवरणे वल्लभः॥ (सुबोधिनी)-रासवल्लिभ्यां च ॥ अभः स्यात् ॥ राम शब्दे । रासभः ॥वल्ल संवरणे । वल्लभः। 'वल्लभो दयितेऽध्यक्षे सलक्षणतुरङ्गमे' इति मेदिनी ॥
(विशादेरन्तः) वेशन्तः । वसन्तः । जयन्तः ॥ (सुबोधिनी)-विशादेरन्तः॥ अन्तप्रत्ययमाह-विश प्रवेशने । वेशन्तः।'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः॥ वस निवासे । वसन्तः ऋतुः॥ जि जये । जयन्तः । 'जयन्तः पाकशासनिः' इत्यमरः ॥ (तत्त्वदी० )-विशादेरिति ॥ वेशन्तः पल्वलम् ॥ जयन्तः शक्रपुत्रः ॥ (हन्तेहिर्मुट च) हेमन्तः॥ (सुबोधिनी) हन्तेहिर्मुट च ॥ हन हिंसागत्योः। अस्य हिरादेशोऽन्तप्रत्ययः प्रत्ययस्य मुडागमश्च स्यात् ॥ हेमन्तः॥ बाहुलकादन्येभ्योऽप्यन्तः । अर्ह पूजायाम्। अर्हन्तः । 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः॥
(अयोदेररः) अररम् । भ्रमरः। चमरः । देवरः । वस निवासे। वासरः॥
(सुबोधिनी )-अादररः ॥ अरप्रत्ययमाह-ऋ गतौ। अररम् । 'अररं छदकपाटयोः' इति मेदिनी ॥ 'कपाटमररं तुल्ये' इत्यमरः ॥ भ्रम अनवस्थाने । भ्रमरः।