SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ (२९०) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] ( तत्त्वदी० ) अमादेरिति ॥ अमत्रं भाजनम् ॥ पतत्रं तनू न्हम् ॥ वरत्रा चर्ममयी रज्जुः।। (भ्रादेरतः) भरतः। पर्व पूरणे । पर्वतः॥ (सुबोधिनी)-भ्रादेरतः ॥ अतप्रत्ययमाह-भृञ् भरणे । भरतः। 'भरतः शबरे नटे । क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे । तन्तुवाय' इति हेमचन्द्रः॥ भरतो ना नाट्यशास्त्रे शबरे च मुनौ नटे । रामानुजे च दौष्यन्तौ' इति मेदिनी ॥ पर्व पूरणे । पर्वतः । 'पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले' इति मेदिनी॥ (पृषिरञ्जिभ्यां कित् ) पृषतः । रजतम् ॥ (सुबोधिनी)-पृषिरञ्जिभ्यां कित् ॥ कतप्रत्ययमाह-कित्त्वान्न गुणः । पृषु सेचने । पृषतः । “पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषताऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ" इति मेदिनी ॥ रञ्ज रागे । नो लोप इति नलोपः । रजतम् । 'रजतं त्रिषु शुक्ले स्यात्क्लीबे हारे सुवर्णके' ति मेदिनी ॥ ( तत्त्वदी०)-पृषि ॥ पृषतो बिन्दुमृगयोः ॥' (शपादेरथः) शपथः । शमथः। दमथः। वस आवसथः। संवसथः॥ (सुबोधिनी)-शपादेरथः । अथप्रत्ययमाह-शप आक्रोशे । शपथः ॥ इ.स दमु उपशमे । शमथः । दमथः। 'शमथः शान्तिमन्त्रिणः' इति मेदिनी ॥ 'दमथस्तु पमान्दण्डे दमे च परिकीर्तितः' इति मेदिनी । 'शम स्तु शमः शान्तिन्तिस्तु दाथो दमः' इत्यमरः॥ वस निवासे । आवसथो गृहम् संवसथो ग्रामः ॥ (तत्त्वदी०)--शपादेरिति ॥ 'शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।। . (रभादेरसः) रभसः ॥ ( सुबोधिनी )-रभादेरसः॥ असप्रत्ययमाह-रभ राभस्ये । रभसः । 'रभसो वेगहर्षयोः ॥' (वेञ आत्वाभावस्तुटू च) वेतसः ॥ (सुबोधिनी)-वेञ आत्वाभावस्तुट् च ॥ वेज तन्तुसन्ताने अस्मादसप्रत्यय परे आत्वाभावः प्रत्ययस्य तुडागमश्च स्यात् ॥ वेतसः। . (दिवः कित् ) दिवु दिवसः ॥ (सुबोधिनी)-दिवेः कित् ॥ कसप्रत्ययमाह-कि वान्न गुणः । दिवु क्रीडादौ । दिवसः। 'वा तु क्लीवे दिवसवासरौ' इत्यमरः॥ ... (क्रादेरभः) कृ करभः। शृशरभः। शलगतौ। शलभः। कल गतौ। कलभः । गर्द शब्दे । गर्दभः॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy