________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(२८९) (हृश्याभ्यामितः) हरितः । श्येतः। ___(सुबोधिनी)-हश्याभ्य मितः ॥ इतप्रत्ययमाह-हज हरणे । हरितः। 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽभवत् ।' इति मेदिनी ॥ श्यैङ्ग गतौ। श्येतः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः।' इत्यमरः॥
(रुहे रस्य लो वा) रोहितः-लोहितः॥ __ (सुबोधिनी)-रुहे रस्य लो वा॥ अस्मादितः स्याद्रस्य वा लकारःरुह बीजजन्मनि प्रादुर्भावे च । रोहितः-लोहितः । “रोहितं कुकुमे रक्ते ऋजुशक्रशरासने। पुंसि स्यान्मीनमृगयोर्भेदे रोहितकदमे॥” इति मेदिनी॥"लोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने । पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति ॥” इति मेदिनी ॥
(श्वादेराय्य:) श्रवाय्यः। स्पृहयाय्यः॥ (सुबोधिनी)-वादेर य्यः॥ आय्यप्रत्ययमाह-श्रु श्रवणे । श्रवाय्यः। श्रवाग्यो यज्ञपशुः। स्पृह ईप्साय म् । चुरादिरदन्तः । स्पृहयाय्यः॥ ( तत्त्वदी०)-वादेरिति ॥ श्रवाय्यो यज्ञपशुः ॥
(वृञ एण्यः ) वरेण्यः ॥ (सुबोधिनी)-वृञ एण्यः॥ एण्यप्रत्ययमाह-वृञ् वरणे । वरेण्यः श्रेष्ठः ॥ (अर्तेरन्यः) अरण्यम् । (पृषश्च षस्य जः) पृषु सेचने पर्जन्यः। (सुबोधिनी )-अर्तेरन्यः ॥अन्यप्रत्ययमाह- गतौ । अरण्यम् । अटव्यरण्यं विपिनम् ' इत्यमरः॥ पृषु सेचने । षस्य जः अन्यश्च स्यात् । पर्जन्यः। 'पर्जन्यो मेघशब्दोऽपि ध्वनदम्बुदशक्रयो।' इति मेदिनी ॥
(तत्त्वदी०)-पर्जन्य इति ॥ 'पर्जन्यः शक्रमेघयोः ॥' .. (वदेरान्यः) वदान्यः॥ ( सुबोधिनी)-वदेरान्यः ॥ आन्यप्रत्ययमाह-वद व्यक्तायांवाचि । वदान्यः । 'वदान्यस्त्यागिवाग्मिनोः।' इत्यजयकोशः॥
( तत्त्वदी०)-वदेरिति ॥ वदान्यस्त्यागिवाग्मिनोः ॥' (अमादेरत्रः) अमाम् । नक्षत्रम् । पतत्रम् । कलत्रम् । वरत्रा ॥ (सुबोधिनी)--अमादेरत्रः ॥ अत्रप्रत्ययमाह-अम गत्यादौ । अमत्रं भाजनम्।। नक्ष गतौ । नक्षत्रम् । नञः प्रकृ तेभावे नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरम् ॥ पत्ल पतने । पतत्रं तनूरुहम् ॥ गड मचने । गडेरादेश्च कः । कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् । 'कलत्रं श्रोणिभार्ययोः।' वृञ वरणे । वरत्रा। 'नधी वध्री वरत्रा स्यात' इत्यमरः ॥ चर्ममयी रज्जुरित्यर्थः ॥
१२