________________
(२८८) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ]
(कादेः कः) कर्कः। राका । अर्कः । कल्कः । इण एकः। भेका काकः । पाकः। निहाका ॥
(सुबोधिनी)-क्रादेः कः ॥ कप्रत्ययमाह--बाहुलकान्न कस्येत्संज्ञा । डुकृञ् करणे । कर्कः। 'कर्कः कर्के तले वह्नौ शुक्लाश्वे दर्पणे घटे। इति विश्वः ॥रा दाने । राका । 'राका नद्यन्तरे कच्छां नवजातरजःस्त्रियाम् । संपूर्णन्दतिथौ' इति मेदिनी ॥ 'राका तु सरिदन्तरे । राका नवरजःकन्या पूर्णेन्दुः पूर्णिमाऽपि च॥' इति विश्वः।।अर्च पूजायाम्। चोः कुरिति कः। अर्कः। 'अर्कोऽर्कपणे स्फटिक रखौ ताने बृहस्पतौ।' इति विश्वः॥ कल गतौ । कल्कः । "कल्कोऽस्त्री घनतैलादिगषे दंभे विभीतके। विटुकि
योश्च पापे च त्रिषु पापाशये पुनः॥” इति मेदिनी॥ कल्कः पापाशये पापे दंभे विट्किट्टयोरपि।' इति विश्वः ॥ इण गतौ । एकः । 'एकः संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु।' इति मेदिनी॥ एके मुख्यान्यकेवलाः।' इति विश्वः॥जिभी भये ।भेकः। भेको मण्डूकमेषयोः' इति विश्वः ॥ कै शब्दे । काकः । “काकः स्याद्वायसे वृक्षप्रभंदे पीठसर्पिणि । शिरोऽवक्षालने मानप्रभेदंद्वीपभेदयोः । काका स्यात्काकनासायां काकोलीकाकजङ्गयोः । रक्तिकायां मलय्वां च काकमाच्यां च योषिति ।काकं सुरतबन्धे। स्यात्काकानामपि संहतौ ॥” इति मेदिनी॥मलयूः काकोदुम्बरिका॥पा पाने । पाकः। "पाकः परिणती शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च ॥” इति मेदिनी ॥ ओहाक त्यागे। निहाका । 'निहाका गोधिका समे ।' इत्यमरः॥
(तत्त्वदी० )-क्रादेरिति ॥ कर्को धवलघोटकः ॥ राका र्णिमा तिथिः ॥'कल्कः पापाशये पापे दम्भे विकिट्टयोरपि ॥' एके मुख्यान्यकेवलाः । भेको म डकमेषयोः ॥' पाकः शिशुः।।. 'निहाका गोधिका समे ॥'
( नौ सदेर्डित् ) निष्कः॥ (सुबोधिनी)-नौ सदेर्डित् ॥ कडप्रत्ययमाह-डित्पाडिलोपः। षद्ल विशरणादौ । निष्कः। 'निष्कोऽस्त्री हेम्नि तत्पले ।' इति विश्वः॥ (तत्त्वदी० )-'निष्कोऽस्त्री हेम्नि तत्पले ॥
(शकेरुनउन्तरन्तिउनिप्रत्ययाः ) शकुनः। शकुन्तः । शकुन्तिः। शकुनिः॥ __(सुबोधिनी)-शकेरुनउन्तउन्तिउनिप्रत्ययाः ॥ उनउन्तउन्तिउनिप्रत्ययानाह-शक्ल शक्तौ। शकुनः । शकुन्तः। शकुन्तिः शकुनिः। "शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः।' इत्यमरः ॥"शकुनस्तु पुमान्पक्षिमात्रपक्षिविशेषयोः । शुभाशंसिनिमित्त च शकुनं स्यानपुंसकम् ॥” इति मेदिनी ॥ 'शकन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः।' इति मेदिनी ॥