________________
[ पूर्वकृदन्ते उणा दयः ]
. टीकाद्वयोपेता ।
(२८७)
(तत्त्वदी०)-शिल्पादय इति ॥ शिल्पं कौशलम् । शष्पं बालतृणं प्रतिभाक्षयश्च ॥ बाष्पमिति ॥ 'अस्रो नेत्रजलोष्मणोः ।' 'रूपं स्वभावे सौदर्ये ॥' ।
(स्तनादेय॑न्तादिनुः) स्तनयित्नुः । गदयित्नुः ॥ _ (सुबोधिनी)-स्तनादेय॑न्तादित्तुः॥इनुप्रत्ययमाह-स्तन गदी देवशब्दे। चुरादीञ्यन्तौ।गुणे कृते अयादेशः। स्तनयित्नुः । स्तनयित्नुः पुमान्वारिधरेऽपि स्तनिते ऽपि च।' इति मेदिनी॥ स्तनयित्नुः पयोवाहे तवृत्तौ मृगरोगयोः ॥ इति विश्वः ॥ गदयित्नुः । 'गदयित्नुः पुमान्कामे जल्पाके कामुकेपि च ॥' इति विश्वः॥ (तत्त्वदी०)-स्तनादरिति ॥ स्तनयित्नुरिति ॥ ओरलोपः ॥ (दाभाभ्यां नुः) दानुः । भानुः॥ (सुबोधिनी)-दाभाभ्यां नुः ॥ नुप्रत्ययमाह-डुदाञ् दाने । दानुः । 'दानुतरि विक्रान्ते' इति मेदिनी ॥ भा दीप्तौ । भानुः। 'भानू रश्मिदिवाकरौ।' इत्यमरः। (घट इच्च ) धेनुः । (सुबोधिनी)-धेट इञ्च ॥ नुः स्याद्धातोरित्वं च ॥ धेट पाने । संध्यक्षराणामित्यात्वे कृते इत्वम् । ततो गुणः। धेनुः । 'धेनुः स्यान्नवसूतिका ।' इत्यमरः ।
(सुवः किच्च) मृतुः ॥ (सुबोधिनी)-सुवः किच्च ॥ नुक् स्यात् ॥ कित्त्वान्न गुणः । षूङ प्राणिप्रसवे । सूनुः । सूनुः पुत्रेऽनुजे रवौ।' इति विश्वः ॥ ( तत्त्वदी० )-मूनुरिति ॥ 'सूनुः पुत्रेऽनुजे खौ ॥' (अजिवृभ्यां णुः) वेणुः। वर्णः॥ (सुबोधिनी )-अजिवृभ्यां गुः॥ णुप्रत्ययमाह-अज गतौ । अजेर्वीति वीः। वेणुः । वेणुर्नुपान्तरे वंशे।' इति विश्वः॥ वृङ संभक्तौ । वर्णः । नददेशभेदयोः ॥
(स्थारीभ्यां णः ) स्थाणुः। रेणुः॥ (सुबोधिनी) स्थारीभ्यां णुः॥ ष्ठा गतिनिवृत्तौ । स्थाणुः । 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति मेदिनी ॥ ‘स्थाणुः कीले स्थिरे हरे' इति विश्वः ॥री गतिरषणयोः । रेणुः । रेणुः स्त्रीपुंसयाधूलो पुँल्लिङ्गः पर्पटे पुनः।' इति मेदिनी ॥ रेणुयोः स्त्रियां धूलिः' इत्यमरः॥ (तत्त्वदी०)-स्थाणुरिति ॥ 'स्थाणुः कीले स्थिरे हरे ।' 'रेणुर्द्रयोः स्त्रियां धूलिः ॥'
(विषः कित्) विष्णुः॥ (सुबोधिनी)-विषेः कित् ॥ णुक्प्रत्ययमाह-कित्त्वान्न गुणः । विष्ल व्याप्तौ।' विष्णुः । 'विष्णुर्नारायणः कृष्णः' इत्यमरः ॥