________________
(२८६)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] __ (तत्त्वदी०)-रास्नादयः॥ रास्ना गन्धद्रव्यम् । साना गलकम्बलः । स्थूणा गृहस्तम्भः ॥ (मनादेयुः) मन्युः। दस्युः । जन्युः॥
(सुबोधिनी)-मनादेर्युः॥युप्रत्ययमाह-मन ज्ञानेनिपातनान्न युवोरित्यनादेशः । मन्युः । मन्युर्दैन्ये क्रतौ क्रुधि ॥' दसु उपक्षये । दस्युः।। 'दस्युश्चौरे रिपौ पुंसि' इति मेदिनी ॥ जनी प्रादुर्भावे । जन्युः। 'अथ जन्युः स्यात्प्राण्यग्निधातृषु' इति मेदिनी ॥ ( तत्त्वदी०)-मनादेरिति ॥ 'मन्युर्दैन्ये ऋतौ क्रुधि ।' दस्यश्चौरः । जन्युर्देही । ( मृङस्त्युक्) मृत्युः॥
(सुबोधिनी)-मृङस्त्युक् ॥ त्युक्प्रत्ययमाह-कित्त्वान्न गुणः । मृङ् प्राणत्यागे । मृत्युः। 'मृत्युनर्ना मरणे यमे' इति मेदिनी ॥
(सर्तेरय्वयू) सरयुः । सरयूः॥ (सुबोधिनी)-सर्तेरय्वयू॥ अयु-अयूप्रत्ययावाह-सृ गतौ।सरयुः। सरयूः नदी॥
(पादेः पः) पापम् ॥ (सुबोधिनी)-पादेः पः॥ पप्रत्ययमाह- रक्षणे । ति रक्षति धर्मादात्मानमिति पापम् ॥
(न्यादेः कित) नीपः । सूपः। कुङ् शब्दे । कूपः॥ (सुबोधिनी)-न्यादेः कित् ॥ पक्प्रत्ययमाह--णीञ् प्रापणे । नीपः। 'नीपः । कदम्बबन्धूकनीलाशोकद्रुमेऽपि च' इति मेदिनी॥ षुञ् अभिषवे । बाहुलकादीर्घः । सूपः । 'सूपो व्यञ्जनमूदयोः' इति मेदिनी ॥ कुङ् शब्द। पाहुलकाद्दीर्घः । कुवन्ति मण्डूका अस्मिन्निति कूपः॥
(शिल्पादयः ) शील शिल्पम् । शसु शष्पम् । बाधृ बाष्पम् । रु रूपम् । शु शूर्पम् ॥ . (सुबोधिनी ) शिल्पादयः ॥ पक्प्रत्ययान्ता निपात्यन्ते ॥ शील समाधौ । ह्रस्वो निपातनात् । शिल्पम् कौशलम् ॥ शसु हिंसायाम् । निपातनात्वत्वम् । शष्पम्। 'शष्पं बालतृणेऽपि च । पुंसि स्यात्प्रतिभाहीने' इति मेदिनी ॥ 'शष्पं बालतृणं घासः' इत्यमरः ॥ बाधृ विलोडने । धस्य षत्वं निपातनात् । बाष्पः। 'बाष्पो नेत्रजलोष्मणोः' इति विश्वः ॥ 'बाष्पमूष्मणि चाश्रुणि' इति च ॥रु शब्दे । दीर्घत्वं निपातनात् । रूपम् । 'रूपं स्वभाव सौन्दर्ये' इति विश्वः॥श हिंसायाम्।निपातनादुर । 'वो वि' हसे इति दीर्घः । शूर्पम् । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः॥