________________
(२६६)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (सुबोधिनी)-अन्द्वादयः॥ कूप्रत्ययान्ता निपात्यन्ते । अदि बन्धने । अन्दूः। 'अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च।' इति मेदिनी ॥ 'अन्दुको हस्तिनिगडे' इत्यमरः । संज्ञायां कप्रत्यये पूर्वस्य ह्रस्वः। केचित्तु अम गलौ अस्य दुगागमे कूप्रत्यय च अन्दूर्बुद्धिरिति व्याचख्युः ॥ (तत्त्वदी० )-अन्द्वादयः ॥' अन्दूः स्त्रियः स्यान्निगडे प्रभेदे भूषणस्य च ॥'
(जनेबुक ) जम्बूः। कर्क दधातीति कर्कन्ध । दिधिं धैर्य स्यतीति दिधिषूः॥
( सुबोधिनी )-जनेबुक् ॥ जनी प्रादुर्भावे । अस्य युगागमः स्यात्कूप्रत्यय ।। जम्बूः। जमु अदने।अस्येत्येके । बाहुलकात्कुप्रत्ययोऽपि । जम्बुः । उक्तं च विक्रमादित्यकाव्ये 'तस्य जम्बोः फलरसो नदीभूय प्रवर्तते ।' इति। 'परिणतजम्बुफलोपभोगहृष्टाः।' इति भारविः॥डुधाञ् धारणादौ। आतोऽनपीत्यालोपः। निपातनात्पूर्वपदस्य नुम् । कर्क दधातीति कर्कधूः । 'कर्कर्वदरी कालिः' इल मरः ॥ षोऽन्तकर्मणि । दिधिं धैर्य स्यति त्यजतीति। संध्यक्षराणामित्यात्वे आतोऽ पीत्यालोपे च दिधिपूः । कैश्चित्तु दधातेरित्वं दित्वं षुक् च निपात्यते दधात्यसाविति दिधिपूरिति व्याख्यातम् । "पुनर्भूदिधिषूरूढा द्विः' इत्यमरः ॥ द्विरूढा द्विवारं विवाहितेत्यर्थः ॥ (तत्त्वदी०)-कर्कर्बदरी। दिधिषः पुनर्भूः ॥ ( मृग्रोरुतिः) मरुत् । गरुत् ॥ (सुबोधिनी) मृगोरुतिः ॥ उतिप्रत्ययमाह-इवार उच्चारणार्थः । मृङ् प्राणत्यागे । मरुत् । अण्प्रत्यये मारुतः । मरुतशब्दोऽप्य व्युत्पन्नोऽस्ति । 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत् ।' इति विक्रमादित्यकोशः ॥ 'कोऽयं वाति स दाक्षिणात्यमरुतः' इति कविराजश्लोकः । गृ निगरणे । गम्त् ॥ (तत्त्वदी०)-मृगोरिति ॥ गरुत्पक्षः ॥ (गिरतरुतिस्तस्य मुट्र ) गर्मुत् ॥ (सुबोधिनी)-गिरतेरुतिस्तस्य मुटु ॥ अस्मात रस्योत्प्रत्ययस्य मुडागमः स्यात् ।। गर्मुत् । 'गर्मुस्त्री स्वर्णलाभयोः' इति मेदिनी ॥ (तत्त्वदी०)-गर्मुत्तॄणं च ॥ (चटेरुलः) चट भेदने । चटुलम् ॥ (सुबोधिनी)-चटेरुलः॥ उलप्रत्ययमाह । चट भेट्ने । चटुलं शोभनम् ॥ - (ह्रादेरितिः) हरित्।सरित्ायुषः सौत्रो धातुःयुष भजने॥योषित् ॥
(सुबोधिनी) द्वादेरितिः॥ इतिप्रत्ययमाह-इकार उच्चारणार्थः । हज हरणे। हरित् । 'हरित्ककुभि वर्णेच तृणवाजिविशेषयोः।' इति विश्वः ॥ हरिद्दिशि स्त्रियां पुंसि