________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(२६७) हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणेऽपि च' इति मेदिनी ॥ रुह बीजजन्मनि । रोहित् । 'रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी ॥ युष इति धातुः सौत्रः। योषित् । 'स्त्री योषिदवला योषा' इत्यमरः॥ (तत्त्वदी०)-हादेरिति॥ हरित्ककुभि वर्णे च तृणवाजिविशेषयोः । रोहिन्मृगविशेषे स्त्री। (ताडेलिक च) तडित् ॥ (सुबोधिनी )-ताडेजिलुक् च ॥ इति प्रत्यये अस्य अलक स्यात् ॥ तड आघाते । ताडयतीति तडित् । 'तडित्सौदामनी विद्युत्' इत्यमरः ॥
(शमेढः ) शण्ढः॥
(सुबोधिनी)--शमेढः ॥ ढप्रत्ययमाह-बाहुलकात् ढस्येत्संज्ञा न । शमु उपशमे । हवक्त्योरितीण्न । शण्टः । 'शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षधरे तृतीयप्रकृतावपि ।' इति मेदिनी ॥ . (तत्त्वदी०)-शमेरिति ॥ शण्डः क्लीबः ॥ ' (कमादेरठः) कमठः । जरठः । ( रमेवृद्धिश्च ) रामठम् । शमः खः। शङ्खः । कणेष्ठः । कण्ठः॥ __ (सुबोधिनी)-कमादेरठः ।। अठप्रत्ययमाह-कमु कान्तौ । कमठः । 'कमठः कच्छपे पुसि भाण्डभेदे नपुंसकम् ।' इति मेदिनी । जृ वयोहानौ । जरठः। 'जरठः काठने पाण्डौ कर्कशेऽप्यभिधेयवत् ।' इति विश्वः ॥ 'जरठः कठिने जीणे' इति वैजयन्ती ॥ रमेर्वृद्धिश्च ॥ रमु क्रीडायामस्य वृद्धिः स्यादठप्रत्यये च । रामटं हिगु ॥ शमेः खः ॥ खप्रत्ययमाह-शमु उपशमे । शङ्खः । 'शङ्खो निधौललाटास्नि कम्बौ न स्त्री' इत्यमरः॥ शङ्खः कम्बौ न योषिन्ना भालास्थ्नि निधिभिन्नखे।' इति मेदिनी॥ कणेष्ठः ॥ ठप्रत्ययमाह-कण शब्द । निपातनात् णस्यानुस्वारं कण्ठः । 'कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति मेदिनी ॥ (तत्त्वदी०)--कमादेरिति ॥ रामठं हिङ्गु ।
वृषलादयः कलप्रत्ययान्ता निपात्याः) वृषलः । शप् शबलः। पल गता। पललम् । सरलम् । तरलम् । कम्बलम् । मुस खण्डने । मुसलम् ॥ (सुबोधिनी)-वृषलादयः कलप्रत्ययान्ता नि।
गदपात्याः॥कित्त्वान्न गुणः।। वृष सचन। वृषलः। 'वृषलस्तुरगेशद्रे' इति हमः कोश । निपातनात्पस्य बः। शबलः॥ पल गतौ । पललम् । 'पललं तिलचूर्णे च पिके मांस न.
रोपंसकम् । ना राक्षसे' इति मेदिनी॥सृ गतौ। बाहुलकाद्गुणः। सरलः। 'सरलः पूतिकाष्ठे,
नाथोदारावक्रयोस्त्रिषु।' इति मेदिनी । “सरला विरलायन्ते घनायन्ते कलिद्रुमाः