________________
( २६८ )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उण दयः ]
पुन्नागो ह्यस्मिन्संसारकानने॥” इति ॥ तृ प्लवनतरणयोः । तरलः ॥ कमु कान्तौ । कमे गागमो निपात्यते । कम्बलः । “कम्बलो नागराजे स्यात्सास्नाप्रावारयोरपिं । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् ॥” इति मेदिनी ॥ 'सास्ना तु गलकम्बलः।' इत्यमरः । मुस खण्डने । मुसलम् । “ मुसलं स्यादयोऽग्रे च पुन्नपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि ॥” इति मेदिनी ॥ मु खण्ने अस्मात्कलप्रत्यये मुशलोऽपि । 'मुसलो मुशलोऽपि च' इति विश्वः ॥
"
( लगेर्वृद्धिश्च ) लाङ्गलम् । कुट्मलम् | कुलम् । कश्मलम् । कोमलम् । मृज् मलम् | हुप् चपलम् । शकलम् । शमलम् ।
छगलः ॥
( सुबोधिनी ) - लगेर्वृद्धिश्च ॥ लगि गतौ । अस्य वृद्धिर्निपात्यते ॥ लाङ्गलम् ॥ कुट कौटिल्ये । कलप्रत्ययस्य मुडागमो निपात्यते । कुट्मलः । कुड दाहे । अस्मात्कलप्रत्यये मुडागमे च कुड्मलोऽपि ॥ कश गतिशासनयोः । कल त्ययस्य मुटु निपातनात् । कश्मलम् ॥ कुशब्दे । अस्मात्कलप्रत्ययस्य मुटु धातोर्गुणच निपात्यते । कोमलम् "कोमलं मृदुलं मृदु ।' इत्यमरः ॥ मृजू शुद्धौ । मृजेष्टिलोपा निपात्यते कलप्रत्यये । मलम् । 'मलोऽस्त्री पापविट्टकिट्टे कृपणे त्वभिधेयवत् । ' इति मेदिनी ॥ चुप मन्दायां गतौ धातोरुपधाया अत्वं निपात्यते कलप्रत्यये । चपलम् । " पलः पारदे मीने चोरके प्रस्तरान्तरे । चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंस के तु शीघ्रे स्याद्वाच्यवत्तरले चले॥” इति मेदिनी । शक्ल शक्तौ । शकलम् । 'शक ं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले ।' इति मेदिनी ॥ रोहितादनिां त्वचि तद्येगात् शाकली मत्स्यः ॥ . शमु उपशमे । शमलम् ॥ छो छेदने अस्य गुगागमो ह्रस्वच निपात्यते । छगलः ॥ 'छगलं नीलवस्त्रे ना छागेऽस्त्री वृद्धदारके ।' इति मेदिनी ॥
( मान्ताड्डुः ) दण्डः । रण्डा । खण्डः । मन्ातेः मण्डः। अण्डः ।
`चण्डः । पण्डः ॥
(सुबोधिनी) -- ञमान्ताडुः ॥ अमप्रत्याहारान्ताद्धातो: स्यात् ॥ डप्रत्ययमाह ।
उपशमे । बाहुलकात् डस्य नेत्संज्ञा । दण्ड: । ' दण्डं ऽस्त्री लगुडेऽपि स्यात् ' . इत्यमरः ॥ रमु क्रीडायाम् । रण्डा । 'रण्डा मूषकपय च विधवायां च योषिति ।' इति विश्वः ॥ खनु अवदारणे । खण्ड: । 'खण्डोऽस्त्री शकले चेक्षुविकारमणिभेदयोः ।' - इति मेदिनी ॥
( कवर्गादिभ्यः किच्च ) गुङ गतौ । गुडः ॥
(सुबोधिनी) - कवर्गादिभ्यः किच्च ॥ डकू स्यात् । कि त्वाद् गुणो न । डक्प्रत्ययमाह-गुङ गतौ । गुङ् अव्यक्ते शब्दे च । 'गुडो गोलेक्षुप | कयोः ।' इत्यमरः । 'गुडः