SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेना। (२६९) स्थागोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्यां च कथिता गुडिकायां च . योषिति ॥” इति मेदिनी ॥ (स्थादेरालः ) स्थालम् । स्थाली ॥ (सुबोधिनी)-स्थादेरालः॥ आलप्रत्ययमाह-ष्ठा गतिनिवृत्तौ । स्थालम् । 'स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलौषधौ।' इति मेदिनी ॥ (पतिचण्डिभ्यामालञ् )पातालम् । चडि कोपे। चण्डालः॥ (सुबोधिनी)-पतिचण्डिभ्यामालन ॥ आलञ्प्रत्ययमाह-जित्त्वाद्वाद्धिः। पत्र पतने। पतन्त्यस्मिन्नधर्मिण इति पातालम् । 'अधोभुवनपातालबलिस रसातलम्।' इत्यमरः॥ 'पातालं नागलोके स्याद्विवरे वडवानले।' इति मेदिनी॥ चडि कोपे। नुमि कृते उपधाया अभावान वृद्धिः । चण्डालः । अणप्रत्यये चाण्डालः ॥ (तमादिभ्यः कालः ) तमालः। बिड भेदने । बिडालः। मृणहिंसायाम् । मर्णयति कमलानि मृणालम् । कुल संख्याने नाशने च । कोलति नष्टां करोति मृत्तिका कुलालः। कपालम् । पल्यते त्यज्यतेऽसौ पलालः॥ (सुबोधिनी)-तमादिभ्यः कालः॥ कालप्रत्ययमाह-कित्त्वान्न गुणः । तमु काङ्क्षायाम् । तमालः। 'तमालस्तिलके खड्ग ना पिच्छे वरुणद्रुमे।' इति मेदनी ॥ विश प्रवेशने।"विशाला विन्द्रवारुण्यामुज्जयिन्यां तु योषित । नृपवृक्षभिदोः पुसि पृथुलेऽप्यभिधेयवत्॥"इति मेदिनी॥ बिड आक्रोशे । बिडालः। "बिडालो नेत्रपिङ्गे स्याद्वषदंशकके पुमान्।' इति मेदिनी। 'ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्।'इत्यमरः।। मृण हिंसायाम् । मृणालम् । 'मृणालं नलदे क्लविं पुन्नपुंसकयोर्विसे ।' इति मेदिनी॥ कुल संख्याने। कुलालः। कुलालः ककुभे कुम्भकारे स्त्रीत्वं जनान्तरे।' इति मेदिनी॥ "कुलालो घूकपक्षिणि । ककुभे कुम्भकारे च' इति हैमः ॥ कपि चलने । नलोपो निपात्यते । कपालम् । 'कपालोऽस्त्री शिरोऽस्थ्नि स्याटादेः शकले बजे।' इति. मेदिनी ॥ पल गतौ । पलालः ॥ (पतादिभ्योऽङ:) पतङ्गः। तरङ्गः । लवङ्गम् ॥ __ (सुबोधिनी)-पतादिभ्योऽङ्गः ॥ अङ्गप्रत्ययमाह-पत्ल पतने। पतङ्गः। 'पतङ्गः शलभे शालिप्रभेद पक्षिसूर्ययोः । क्लीवं सूते' इति मेदिनी ॥ सूते पारदे इत्यर्थः ॥ तृ प्लवनतरणयोः। तरङ्गः । 'तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः।' इति विश्वः॥ लूञ छेदने । 'लवङ्गं देवकुसुमम्' इत्यमरः॥ (बिडादेः कित् ) बिडङ्गः । मृद क्षोदे। मृदङ्गः ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy