________________
(२७० )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उणादयः ]
(सुबोधिनी) - बिडादेः कित् ॥ अङ्गकप्रत्ययमाह कित्वान्न गुणः । बिड आक्रोशे । बिडङ्गः।'बिडङ्गः कृमिसंघने बिडङ्गो नागरेऽन्यवत्। ' इति विश्वः॥ 'बिडङ्गस्त्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम् ।' इति मेदिनी ॥ मृद नोदे । मृदङ्गः । ‘मृदङ्गः 'पटहे घोषे ' इति मेदिनी ॥
( गमादेर्गः ) गङ्गा । छो छागः । खड्गः ॥
( सुबोधिनी ) - गमादेर्गः ॥ गप्रत्ययमाह - गम्ल गये । गङ्गा ॥ छो छेदने । छागः । खड भेदने । खड्गः । 'खड्गो गण्डकशृङ्गे स्थानि स्वशे गण्डकेऽपि च।' इति शब्दतरङ्गिणी । 'खड्गो गण्डकशृङ्गासिबुद्धिभेदेषु गण्डके । इति मेदिनी ॥
(भृङ्गादयः ) भृञ् भृङ्गः । शृङ्गम् । शार्ङ्गः । पूगः । मोदतेः मुद्गः॥ (सुबोधिनी) - भृङ्गादयः ॥ गक्प्रत्ययान्ता निपात्यन्ते - डुभृञ् धारणपोषणयोः । प्रत्ययस्य नुटु निपातनात् । भृङ्गः । 'भृङ्गाः षिद्रा धूम्याटा:' इति विश्वः ॥ 'भृङ्गो धूम्याटषिद्वयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुड चि' इति मेदिनी ॥ शू हिंसायाम् । शृणातेर्हस्वः प्रत्ययस्य नुडागमश्च निपात्यते । शृङ्गम् । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोर्ऋषभौषधौ ॥' इति मेदिनी ॥ " शृङ्गं विषाणमाख्यातं शैलाग्रे जलयन्त्रके । मीनौषधि सुवर्णानां भेदे शृङ्गी प्रयुज्यते ।।" इ युत्पलिनीकोशे ॥ शृणातेः शकुनौ वाच्ये गण्प्रत्ययः तस्य नुट् च निपात्यते । णिवाद्वृद्धिः । शार्ङ्गः पक्षी । शार्ङ्गं धनुरिति तु शृङ्गस्य विकार इत्यर्थेऽण्प्रत्यये बोध्यम् । पू पवने । पूयते मुखमनेनेति पूगः । 'पूगस्तु क्रमुके वृन्दे' इति मेदिनी ॥ मुद हर्षे । मुद्रः सस्यभेदः ॥
(शरदादयोऽदिप्रत्ययान्ता निपात्याः ) शू शरत् । दृणाते: दरत् । दृषत् । त्यजेः त्यत् । तनेः तत् । यजेः यत् । इण् एतत् ॥ (सुबोधिनी ) - शरदादयोऽदिप्रत्ययान्ता निपा त्याः॥शु हिंसायाम् | आदिप्रत्ययः। इकार उच्चारणार्थः । शरत् । 'शरत्स्त्री वत्सरेऽप्यृनौ' इति मेदिनी ॥ हृ विदारणे । दरत् । 'दरस्त्रियां प्रपाते च भयपर्वतयोरपि ।' इति मेदिनी ॥ दृणातेः षुक् ह्रस्वो गुणाभावश्च निपात्यते । दृषत् । 'दृषन्निष्पेषणाई लापट्टप्रस्तरयोः स्त्रियाम् ।' इति मेदनी ॥ त्यज हानौ । निपातनाट्टिलोपः । यद् ॥ तनु विस्तारे निपातनाट्टिलोपः । तद् ॥ यज देवपूजादौ । टिलोपो निपातनात् । यद् ॥ इण गतौ । अस्प गुणे कृते तुगागमो निपात्यते । एतद् ||
(तत्त्वदी० )- शरदादय इति ॥ शरद्धृदयकूलयोः ॥ (भियोsजिः षुक् ह्रस्वश्च ) भिषक् ॥