________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(२७१) (सुबोधिनी)-भियोऽजिः षुक् ह्रस्वश्च ॥ जिभी भये अस्मादजिप्रत्ययः स्यात् ॥ अजिप्रत्ययमाह-इकार उच्चारणार्थः । अजिप्रत्यये भियो हस्वः षुगागमश्च स्यात् ॥ ह्रस्वविधानसामर्थ्यान्न गुणः । भिषक् । 'भिवग्वैद्यौ चिकित्सके।' इत्यमरः।। __ (युष्यसिभ्यां मदिक् )युषः सौत्रः । युष्मद् । अस्मद् ॥
(सुबोधिनी)-युष्यसिभ्यां मदिक् ॥ मदिप्रत्ययमाह-कित्त्वाद्गुणो न । इकार उच्चारणार्थः॥युषःसौत्रो धातुः।युष्मद् । असु क्षेपणे । अस्मद् । त्वम् । अहम् ॥
(स्त्वादेर्मः) स्तोमः। सोमः । होमः। धर्मः । क्षेमम् । भामः । वामः । यामः । पद्मम् । नयतीति नेमः॥ __ (सुबोधिनी)-स्त्वादेर्मःमप्रत्ययमाह-ष्टुञ् स्तुतौ। स्तोमः संघातः॥षुञ् अभिववे। सोमः । “सोमस्तुहिनदीधितौ ॥ वानरे च कुबेर च पितृदेवे समीरणे । वसुप्रभेदे करे नीरे सोमलतौषधौ ॥” इति मेदिनी॥हु दानादनयो। होमः। देवतोदेशेन हविःप्रक्षेपो होमः॥ धृञ् धारणे । धर्मः। “धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः ऋतौ। अहिंसोपनिषन्याये ना धनुर्यमसोमपे ॥” इति मेदिनी ॥ 'धर्मः पुण्ये यमे न्याये स्वभावाचारयोः ऋतौ ।' इति विश्वः ॥ क्षि क्षये । क्षेमम् ॥ भा दीप्तौ । भामः । 'भामः क्रोधे रुचौ दीप्तौ' इति विश्व आदित्यश्च । या प्रापणे । यामः । 'यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः।' इति मेदिनी ॥ वा गतिगन्धनयोः । वामः । “वामं धने पुंसि हरे कामदेवे पयोधरे। वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियामथ । वामी शृगालीवडवारासभीकलभीषु च ॥” इति मेदिनी ॥ पद गतौ। पद्मम् । ‘पद्मोऽत्री पद्मक व्यूहनिधिसंध्यान्तरेऽम्बुजे । ना नागे' इति मेदिनी ॥णीञ् प्रापणे । नेमः । 'नेमः कीलेऽवधौ गर्ने प्राकारे कैतवेऽपिच।' इति मेदिनी॥ नेमस्त्वर्दै प्राकारगर्तयोरवधौ कैतवेऽपि च ।' इति हैमः॥
(जिह्मादयो निपात्यन्ते) जिह्मः॥ ग्रसु ग्लसु अदने । ग्रामः । सिमः । शुष्मम् । श्यैङ् श्यामः । धूमः । युग्मम् । रुक्मम् । तिग्मम् । हिमम् । भीमः । भीष्मः । घृक्षरणे दीप्तौ च । जिघर्त्यनेन धर्मः । ग्रसेः ग्रीष्मः॥ __ (सुबोधिनी)-जिह्मादयो निपात्यन्ते ॥ ओहाक त्यागे अस्मात् मप्रत्ययः सप्रत्ययवद्भवति आतो लोपश्च निपातनात्। तेन द्वित्वादिः। यः से इति पूर्वस्येत्वम् । जिह्मः । 'जिह्मः कुटिलमन्दयोः।' इत्यमरः। जिह्मस्तु कुटिले मन्दे क्लीवे तगरपादपे।' इति मंदिनी ॥ ग्रसु अदने । ग्रसेप्टेरात्वं निपात्यते । ग्रामः । 'ग्रामः स्वरेसंवसथेवृन्दे शब्दादिपूर्वके।'इति विश्वः॥ शब्दादिपूर्वको ग्रामशब्दोवृन्दे। शब्दग्रामो गुणग्राम इति यथा । 'शब्दादिपूर्वो वृन्देऽपि ग्रामः' इत्यमरः॥ 'संपूर्वः संयुगे स्मृतः।' इति विश्वः।