________________
(२७२)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्त उणादयः ] पिञ् बन्धने । निपातनान्मकप्रत्ययान्तो वक्ष्यमाणो ज्ञेयःसिमः सर्वादिगणे पठितः। शुष शोषणे । शुष्मम्। शुष्ममग्निसमीरयोः। इति विश्वः ।। 'शुष्मं तेजसि वायौ ना' इति मेदिनी ॥ श्यैङ् गतौ । श्यामः। 'त्रिषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिका निशा।' इत्यमरः ॥ "श्यामो वटे प्रयागस्य वारिदेवृद्धदारके। पिक च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु॥मारीचे सिन्धुलवणे क्लीबं की शारिकौषधौ । अप्रसूतांङ्गनायां च प्रियङ्गावपि गुग्गुलौ ॥ यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ। नीलि. कायाम्" इति मेदिनी ॥ धूञ् कम्पने । धूमः ॥ युजिर यांगे । निपातनाज्जस्य गः। युग्मम् ॥ रुच दीप्तौ । निपातनाच्चस्य कः। रुक्मम् । 'रुक्मं तु काश्चने लोहे' इति विश्वः ॥ तिज निशाने । निपातनाजस्य गः। तिग्मम्। 'तिग्मं तीक्ष्णं खरं तद्वत्' इत्यमरः ॥ हन हिंसागत्योः। हन्तर्हिरादेशो निपातनात् । हिमम् । हिमं तुषारमलयोद्भवयोः स्थानपुंसकम् । शीतले वाच्यलिङ्गः' इति मंदिनी ॥ त्रिभी भये । भियः षुगागमो वा निपात्यते॥विभेत्यस्मादिति भीमः।भीष्मः। 'भीष्मोगाई यघोरयोः।' इति विश्वः ॥ भीमोऽम्लवेतसे घोरे शम्भौमध्यमपाण्डव।' इति मंदिनी ॥घृ क्षरणदीप्त्योः ॥निपातनाद् गुणः। धर्मः। 'धर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्भसोरपि ।' इति मेदिनी ॥ ग्रसु अदने । अस्य निपातनात् ग्रीषादेशः। ग्रीष्मः। 'ग्रीष्म उष्णतुभेदयोः।' इति मेदिनी ॥
(प्रथेः षिवः संप्रसारणं च) पृथिवी ॥ (सुबोधिनी)-प्रथेः षिवः संप्रसारणं च ॥ विप्रत्ययमाह-षित्त्वादीप् ॥ षवप्रत्यय इत्येके । प्रथ प्रख्याने पृथिवी।"पृथवी पृथिवी पृथ्वी धरा सर्वसहा रसा॥" (तत्त्वदी०)-प्रथेः षिवः इति ॥ पव इत्येके । पृथवी पृथिवी पृथ्वी ।
(अशादे का) अश्वः । खट काङ्क्षायाम् खट्वा । विश्वम् । सर्वादिरयम् ॥
(सुबोधिनी )-अशादेः कः॥ कित्त्वान्न गुणः । क्वयत्ययमाह--अशूङ् व्याप्ता। अश्वः । 'अश्वः पुंजातिभेदे च तुरङ्गे च पुमानयम् ।' इति मेदिनी ॥ अश्वः पुंभेदवाजिनाः।' इति विश्वः॥ खट काङ्खायाम॥ खट्यते शयनार्थि भेः काक्ष्यते इति खट्वा॥ विश प्रवेशने । विश्वः । “ विश्वा प्रतिविषायां स्त्री जगत स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु ॥” इति मेदिनी ॥ (स्रादेवः ) सृतमनेन विश्वमिति सवः । गदः । शर्वः ।। ( सुबोधिनी ) स्रादेवः ॥ वप्रत्यययमाह-मृ गतौ । मृतमनेन विश्वमिति सर्वः। गृ निगरणे । गर्वः अहंकारः । शृ हिंसायाम् । शर्वो रुद्रः॥