________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(२७३) (ग्रीवादयो वप्रत्ययान्ता निपात्यन्ते ) ग्रीवा। लिहन्त्यनयेति जिह्वा ॥ __ (सुबोधिनी)-ग्रीवादगो वप्रत्ययान्ता निपात्यन्ते ॥ गृ निगरणे। ईडागमो गुणाभावश्च निपातनात् । गिरन्त्यनयति ग्रीवा ॥ लिह आस्वादने । लस्य जो गुणाभावश्च निपातनात् । लिहन्त्यनयेति जिह्वा ॥ (तत्त्वदी०)-ग्रीवादय इति ॥ गिरन्त्यनयेति ग्रीवा ॥
(खादेः कन) युवा । वृषा । तक्ष्णोति काष्ठानि तक्षा । राजा । धवि गतौ । धन्वयति ारानिति धन्वा । प्रतिदिवा ॥
(सुबोधिनी)-य्वादेः कन् ॥ कन्प्रत्ययमाह-कित्त्वान्न गुणः । यु मिश्रणे । यौतीति । नुधातारित्युत् । नापधाया इति दीर्घः । नाम्नो नो लोपशिति नलोपः । युवा । 'युवा स्यात्तरुणे श्रेष्ठ नेसर्गबलशालिनि।' इति मेदिनी ॥ वृषु सेचने । वृषा । 'वृषा कर्णे महेन्द्रे ना' इति : दिनी॥त तनूकरणे । तक्षा । 'तक्षा तु वर्द्धकिस्त्वष्टा रथकारश्च काष्ठतट्।' इ यमरः ॥ राज दीप्तौ । राजा । 'राजा प्रभौ नृपे चन्द्रे पक्षे क्षत्रियशक्रयोः।' इत्यमरः । धवि गतौ। धन्वा । 'समानौ मरुधन्वानौ' इत्यमरः॥ 'अथास्त्रियाम् । धनुश्चापो धन्यशरासनकोदण्डकार्मुकम्।' इत्यमरः॥ “धन्वा तु मरुदंश ना क्लीवे चापे शरेऽपि ।' इति मेदिनी ॥ दिवु क्रीडादौ । प्रतिदीव्यत्यस्मिनिति प्रतिदिवा दिवसः॥
(सप्यशूभ्यां तुट ) षप समवाये । सप्त । अष्ट ॥ (सुबोधिनी)-सप्यशूभ्यां तुटु च ॥ आभ्यां कन् प्रत्ययः स्यात्तस्य तुडागमश्च ॥ पप समवाये । जश्व सोरिति जसो लुक् । नाम्नो नो लोपशिति नलोपः । सप्त ॥ असूङ व्याप्तौ । छशति षत्वम् । अष्ट ॥
(नधि जेहातेः) अहः॥ __ (सुबोधिनी)-नजि ज हातेः॥ ओहाक् त्यागे अस्मात्कन् प्रत्ययः स्यात् ॥ न जहाति प्रकाशमिति । आगाऽनपीत्यालोपः। अह्न इति नस्य सः। अहः ॥ __(श्वादयः) श्वा । उक्षा । पुष्यति कमलानीति पूषा । प्लेहते प्लीहा । मुह्यन्त्यस्मिन्नाइते मूर्दा । मज्जत्यस्थिषु मज्जा । अर्यपूर्वो माङ् अर्यमा । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । मह पूजायाम् । मह्यते इति मघवा ॥ इत्युणादौ प्रथमः पादः॥
(सुबोधिनी )-श्रवादयः ॥ कन्प्रत्ययान्ता निपात्यन्ते-टुओश्विइर गतिवृद्धयोः । श्वयतीति । इकारलोपो निपातनात् । श्वा ॥ उक्ष सेचने । उक्षा वृषभः ॥
१८