________________
(२७४)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] पुष वृद्धौ । इनामिति दीर्घः। पूषा, पूषणौ, पूषणः । प्लिह गतौ । इकारस्य दीर्घत्वं निपात्यते । प्लीहा कुक्षिव्याधिः॥ मुह वैचित्त्य । मुहरुपधाया दीर्घः । धोऽन्तादेशी रमागमश्च निपातनात् । मूर्धा । 'मूर्धा ना मस्तकोऽस्त्रियाम्।' इत्यमरः॥मुर्वी बन्धने । अस्योकारस्य दीर्घत्वं वस्य धश्च निपात्यते इत्युज्ज्वलदतः । मूर्दा।टुमस्जो शुद्धौ । मस्जेश्चुत्वेन सस्य शः। झबे जबा इति सस्य जः। मज्जा। नकारान्तोऽयम् । आवन्तोऽप्यभ्युपगम्यते । “ऊष्मया सार्द्धमूष्माऽपि मज्जोक्ता मज्जयासह।" इति द्विरूपकोशः॥ माङ माने । इनामिति दीर्घः । 'अर्यमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च ।" इति मोदनी ॥ टुओश्विइर् गतिवृद्धयोः । धातोरिकारलोपः संप्रसारणाभावः सप्तम्या अलुक च निपात्यते । मातरीत्यव्ययमन्तरिक्षवाचि तस्मिन् स्वयतीति' मातरिश्वा । 'मातरिश्वा सदागतिः।' इत्यमरः॥अथ च वादरिति सूत्रण वस्योत्वं न भवति अभिव्यक्तेः पदार्थपरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य नदन्तस्य च ग्रहणात् । तेन मातरिश्वनः मातरिश्वनेत्यादि । मह पूजायाम् । धातोः स्य धःअवुगागमश्च निपात्यते । मघवा इन्द्रः ॥ इत्युणादौ प्रथमः पादः ॥ - (कृहोरेणुः) करेणुः । हरेणुः॥
(सुबोधिनी)-कहोरेणुः॥ एणुप्रत्ययमाह-डुकृञ करणे। करेणुः । 'करणुरिभ्यां स्त्री नेभे' इत्यमरः।। 'करेणुर्गजयोषायां स्त्रियां पुति मतङ्गजे ।' इति मेदिनी । हृज हरणे । हरेणुः। 'हरेणुर्ना सतीने स्त्री रेणुकाव लयोपयोः।” इति मेदिनी ॥ हरेणुर्गन्धद्रव्यं कलायश्चेति बोध्यम् । 'कलायस्तु सतीनकः' इत्यमरः॥
(कुषादेः क्थः) कुष्ठम् । रथः । काश दीप्तौ काष्ठम् । अवभृथः॥ __ (सुबोधिनी)-कुषादेः क्थः॥ क्थप्रत्ययमाह-फित्त्वान्न गुणः। कुप निष्कर्षे। कुष्ठम् । 'कुष्ठं रोगे पुष्करेऽस्त्री' इति मेदिनी ॥ 'कुष्ठं रं गे सुगन्धे च' इति विश्वः॥ रमु क्रीडायाम् । लोपस्त्वनुदात्ततनामिति मलोपः । रथ । 'रथः पुमानवयवे स्यन्दन वेतसेऽपि च।' इति मेदिनी ॥ 'रथः स्यात्स्यन्दने काये चरण वेतसेऽपि च।' इति 'विश्वः ॥ काश दीप्तौ । छशषेति षत्वं ष्टुत्वम् । “कामा दारुहरिद्रायां कालमानप्रकषयोः। स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्॥” इति मेदिनी ॥ "काष्ठं दार्विन्धनं त्वेधः” इत्यमरः॥ डुभृञ् धारणादौ । अब थो यज्ञस्नानम् ॥
(उषादेस्थः) ओष्ठः । कोष्ठः। गाथा । अर्थः । शु गतौ॥ शोथः॥ (सुबोधिनी)-उषादेस्थः॥ थप्रत्ययमाह-उष दाहे । ओष्ठः । कुष निष्कर्षे । कोष्ठः। कोष्ठः कुक्षिकुसूलयोः॥'गै शब्दे । गाथा । “गाथा श्लोके. संस्कृतान्यभाषायां शेषवृत्तयोः।।' इति मेदिनी॥ ऋ गतौ । अर्थः। 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।' इत्यमरः । शु गतौ । शोथः। 'शोफस्तु श्वयथुः शोथः' 'त्यमरः॥